________________
१५८
बुक्तिकल्पतरोया कालकाम्बुदमसौरसकालसर्पशङ्कान्धकारकचभार समा विभाति । भूमिश्च या भ्रमरवन्धुसमावभासा ; खङ्गस्य कृष्णमिति रूपमिदं वदन्ति ॥ १३ ॥ अत्र नेत्राणि सम्पत्त्यै अरिष्टान्य शुभानि च । साधारणमिदं रूपं प्राह नागार्जुनो मुनिः ॥ १४ ॥ या प्रावषेण्य-नवभेकसमानवणा, | गोमेदरत्नसदृशापि च यस्य भूमिः । खानस्य पिङ्गमिति रूपमिदं वदन्ति ; भत्तुर्यशोवलधनक्षय-कारणाय ॥ १५ ॥ या मन्दधूमसदृशा च शिरीष पुष्प, तुल्या विभाति मलिनापि च खड्न भूमिः । नागार्जुनो वदति धूम्रमिदं हि रूपं ; भत्तुर्यशोवलधनावलि-वईनाय ॥ १६ ॥ हिरूपं मिश्रितं कृत्वा श(स)ङ्करं प्रवदेडुधः । विभीरूपैः समेतन्तु खङ्ग त्रिपुर-संज्ञितम् (१३) । रूपैश्चतुर्भिः संयुक्तं चतुरं खन मुत्तरम् ॥ १७ ॥ इति लौहार्णवस्य खड्न परीक्षायां वर्णाध्यायस्तृतीयः । जातिश्चतुर्विधा प्रोक्ता खङ्गानां या पुरा मया। सम्पत्यपि प्रयत्नेन तासां लक्षणमुच्यते ॥ १८ ॥ शुष्टाङ्गः शुद्धवर्णश्च सुनेत्रः सुखरश्च यः (१४)। मृदस्पर्शः सुसन्धेयस्तीक्ष्णधारो महागुण: । १८॥
(१३) सङ्गितं इति (क) पुस्तक पाठः । (१४) सुमुखञ्च यत् इति (ख) पुस्तक पाठः ।