________________
१५७
अस्त्रयुक्तिः। अत्यन्त निर्मलाभूमि: शरीरं प्रतिविम्बितम् । धारा तीक्ष्णा स्वरस्तीक्ष्ण: (१०) स्वच्छाङ्गं तदिनिर्दिशेत् ॥५॥ तस्मिन् यदा भवेद्रेखा ऊो ऋत्वाख्यकं (११) तदा । अस्मिन्नपि भवेहकारेखा वक्राभिधन्तु तत् ॥ ६ ॥ एतत् त्रितयमुद्दिष्टं खङ्गानां प्रवरं वुधैः । प्रायशो लभ्यते लोके यदि सर्वगुणावहम् ॥ ७ ॥ इतीदं निखिलं प्रोक्त वचाणां लक्षणं मया। प्रयत्नलिखितं व्यक्त सर्वेषां हितकाम्यया ॥ ८ ॥ इतः परन्तु लौहानां लक्षणं यत्र लक्ष्यते। तस्य दासो भवाम्येव प्रतिज्ञेति कता मया ॥ ८ ॥
विलिङ्गमिश्रमालोक्य मिश्राङ्गमिति निर्दिशेत् । ३ सर्वेषामङ्गमालोक्य सर्वाङ्गमिति निहि शेत् ॥ १० ॥
इति खङ्गपरोक्षायामङ्गाध्यायो द्वितीयः ।
खङ्गस्य रूपाणि यथानौलीकलाय-कुसुमच्छविग्य(१२)ञ्जनाभा, या चन्द्रनील मणि-काच मणि-प्रभाच । भूमिश्च या मरकत-प्रतिमावभासा ; खङ्गस्य नौलमिति रूपमिदं वदन्ति ॥ ११ ॥ तत्र चेविन्दितान्यङ्गान्यरिष्टानि वहन्यपि। दृश्यन्ते वहुदोषापि तथापि गुणवत्तरम् ॥ १२ ॥
(१०) सवन्तीचणः इति (क) पुस्तक पाठः । (११) वक्त यथा इति (ख) पुस्तक पाठः । (१२) गुच इति (ग) पुस्तक पाठः ।