________________
१५१
युक्तिकल्पतरोभूमिः न हो(८)दलसमा अङ्ग तत्कण्टकोपमम् । धारा तीक्ष्णा रव(वर)स्तीक्ष्णो लघुमानं खरस्मशा ॥ १५ ॥ सुधाङ्गः खङ्ग इत्येष तत्क्षते दाहड्भ्रमाः । मुखाक्षि कर्णनासानां दाहः पाकश्च जायते ॥ ८६ ॥ अयं यदि च सर्पाणां फणासूपरिविश्यते । फणाविदारमाप्नोति सर्पो लोटयते शिरः । अस्य धावन तोयेन कुष्ठरोगविनाशनम् ॥ ८७ ॥ कर्कन्धुदलपृष्ठाभा भूमिरगन्तु तत्समम् । कर्कन्धुवजं जानीयात् तत्क्षते दाहनाशनम् ॥ ८८ ॥ एष खगाधमस्त्याज्यो जेतव्या यदिविद्दिषः । अङ्ग वकुलपुष्पाभं भूमिस्तत्फलसन्निभा ॥ ८ ॥ वकुलाङ्गमिदं पूज्य शाणे सुरभिगन्धवत् । तनास्ति जगतोमध्ये यदनेन न साध्यते ॥ १०० ॥ अङ्ग सन्मिश्रितं यस्मिन्न किञ्चियक्तमोक्षते ()। सर्वेषां दर्शनं वापि तीक्षाधारः(रा) खरस्वरः ॥ १ ॥ एष काजिकवचः स्यादयत्नादेवोपलभ्यते । नैनं प्राप्यापि वईन्ते शेषाश्चित्रादयोऽपि च ॥ २ ॥ भूमिः कृष्णा निरङ्गा चेद्धारा तीक्ष्णा दृढ़ापि च । आघातं सहते घोरं रक्तं स्पर्शन यो विशेत् ॥ ३ ॥ शाणेन वह्नि वमति ध्रुवं वाप्यति घर्षणात्। महिषाङ्गः स वै खङ्गः पृथिव्यां नाति दुर्लभः ॥ ४ ॥
(८) स्थूला इति (क) पुस्तक पाठः । (e) मिक्ष्यते इति (ख) पुस्तक पाठः ।