________________
१७५
असामा-वृत्तिः। सितो रक्तस्तथा पोतः कृष्ण इत्यभिशब्दितः। ब्रह्मादिजाति भेदेन चर्मणां वर्णनिर्णयः ॥ ६५ ॥ चित्रवर्णस्तु सर्वेषां सर्वदैवोपपद्यते ॥ ६६ ॥ . इति श्रीभोजराजीये युक्तिकल्पतरौ चर्मपरीक्षा ॥
००
अथ धनुलक्षणम् । धनुस्तु विविधं प्रोक्तं शाङ्ग वांश(स) तथैव च । कोमलं वर्णदृढ़ता तयोर्गुण उदाहृतः ॥ ६७ ॥ सुखसम्पत्तिकरणं सममुट्यायतं धनुः । विपदो मुष्टिवैषम्ये तदङ्ग भङ्गमावहेत् ॥ ६८ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ धनुःपरीक्षा ॥
अथ वाण लक्षगाम् ।
लघता दृढ़ता चैव तथा खरतरास्यता । वाणानामिति निर्दिष्टो भूभुजां गुणसंग्रहः ॥ ६ ॥ तन्मानं विदुषाकार्यमङ्गलोभियथोदितम् । अङ्गली मान वैषम्य विजयो जायते रणे । अङ्गुली मान साम्यतु भङ्ग एवोपजायते ॥ ७० ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ वाणपरीक्षा ॥ शरमल्लौखरतरौ लघु दृढ़तरौमतौ। अईचन्द्रस्तुकथितो लघुतीव्रतरानन: ॥ ७१ ॥ नाराचस्तुशिरालः स्यात्तीक्ष्णाग्रः कर्कशाग्रकः । शक्तियष्ट्यादयोयऽन्ये ते तीक्ष्णाग्राः प्रतिष्ठिताः ॥ ७२ ॥
.