________________
१५४
युक्तिकल्पतरौमार्जाररोम-सदृशमङ्ग भूमिः सितेतरा । मार्जाराङ्गमिदं नाम्ना रोगशोक भयावहम् (३) । ७६ ॥ एष खनाधमस्त्याज्यो यदीच्छेतिमात्मनः ॥ ७७ ॥ केतकीपत्रसदृशमङ्ग यस्मिन् प्रतीयते । विद्यात् केतकवजं तद् वाराणसी(स) समुद्भवम् ॥ ७८ ॥ लौहप्रदीपस्य,अङ्ग मूर्खातन्तुनिभं भूमिमूर्बादलच्छविः । शाणेन वमते शुक्लां शिखां मौर्बी भवेत् ततः ॥ मौर्वाङ्गमिदमुत्कृष्टं यशः कीर्तिवलावहम् ॥ ७ ॥ लिङ्ग तीक्ष्णं (४) खरं गाढं शाणे वनेर्वमेत्कणम् । छिनत्त्यन्यविधं लौहं वज्राङ्गमिति तहदेत् ॥ ८ ॥ कलायपुष्पसदृश मङ्ग भूमिः सितासिता। कलायवज्र जानीयात् तत्क्षते पाक इष्यते ॥ ८१ ॥ अङ्ग चम्यकपुष्पाभं भूमिः कृष्णा तथा सिता । शिखां शाणे वमेच्छोतं तिक्त तस्य जलं भवेत् । इदं चम्पकवन स्यात् सर्वत्र विजयप्रदम् ॥ ८२ ॥ अङ्ग वलादलसमं भूमिः शुक्ला तथेतरा । वलावज्रमिदं ज्ञेयं नानाभावं भवेद द्रुतम् । इत्ययं वातरोगाणां नाशने परमौषधम् ॥ ८३ ॥ अङ्ग वटारोहसमं भूमिर्वटदलच्छविः । वटवजमिदं ज्ञेयं खरं खङ्गाधर्म वुधैः ॥ एतस्य स्पर्शमात्रेण नरो मुच्यते सम्पदा (५)॥८४ ॥
(३) भयापहम् इति (ग) पुस्तक पाठः । (४) लिङ्गमतितोचणं इति (ख) पुस्तकः पाठः । (५) शङ्गटात् इति (ग) पुस्तक पाठः ।