________________
१५३
अखयुक्तिः। मन्दा धारा भृशं गाढ़ा भूमिरङ्गविवनिता । पर्वताङ्गमिदं नाम सर्ववैवोपलभ्यते ॥ ६ ॥ अङ्ग गुञ्जाफलसमं भूमिमा॑नदलोपमा । गुलावजमिदं पृष्ठं तप्त भवति घर्षणे ॥ ६७ ॥ शाणे सिन्दूरसङ्काशं रजो वमति चासतत् । एष खगवरो राजा भाग्यादेवोपयुज्यते ॥ ६८ ॥ अस्य प्रभावात् तन्नास्ति यन्त्र साधयते नृपः । अङ्ग तनुशराकारं भूमिश्चैव सितासिता ॥ ६८ ॥ धारा तीक्ष्णा वमति च शाणे वह्निसमाः शिखाः । शरवचमिदं ज्ञेयं राज्ञां वाञ्छितसिद्धये ॥ ७० ॥ दूर्वादलनिभा भूमिर्धारा तीक्ष्णा खरः स्वरः । शाणेन वमते वह्निं दूर्वावचं सुदुर्लभम् ॥ ७१ ॥ अङ्ग विल्वदलाकारं भूमिश्चैव सितासिता । विस्ववचमिदं शाणे नीलपोते वमेच्छिखे । एष खगवरः प्रोक्त: शत्रूणां कुलनाशनः ॥ ७२ ॥ मसूरदल-सङ्काशा भूमिरङ्ग मसूरवत् । मसूराङ्गमिदं शाणे रजो (१) वमति चारुणम् ॥ ७३ ॥ शोण(२)पुष्पनिभा रेखा दीर्घा भूमिः सितेतरा। शोणाङ्गमिति जानीयात् खग परमदुर्लभम् ॥ ७४ ॥ शठोदलसमा भूमिरङ्ग तत्कुसुमोपमम् । शठीवच मिदं प्रायो लभ्यते गुणवत्तरम् । ७५ ॥
(१) वज्रो इति (क) पुस्तक पाठः । (२) प्रण इति (ख) पुस्तक पाठः।