________________
१५
युक्तिकल्पतरोशमीवञ्चमिदं जेयं शनैश्वरमुदावहम् । शाणेषु वमते वह्नि सहते वह्निपोड़नम् ॥ ५४ ॥ रोहितवस्कल सदृशमङ्ग भूमिः सितासिता वापि । धूम्रागम्भौर खरयुक्तं धारा तीक्ष्णा सिता भवेद्रेखा ॥५५॥ रोहिताख्यमिदं वजं सर्वारिष्टविनाशनम् । वह्निसंस्पर्शमात्रेण किञ्चिञ्चिमिचिमायते ॥ ५६ ॥ इत्ययं दुर्लभः खङ्गो देवानामपि कथ्यते । शफ(६)रीवल्कलाकारमङ्ग भूमिः सितासिता ॥ ५७॥ प्रोष्ठीवजमिदं प्रोक्तं न्यस्त तरति वारिणि । एष खगोत्तमो राज्ञां विपक्षकुलनाशकः ॥ ५८ ॥ कदाचिल्लभ्यते भाग्यलभ्यते लभ्यते महो। अङ्ग मारिषपत्राभं भूमि: स्याविषमच्छविः ॥ ५८ । इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नातिदुर्लभः । भृङ्गराजस्य पुष्याभमङ्गं भूमिर्दलप्रभा ॥ ६ ॥ आघातं सहते नैव एष खनाधमो मतः । धारा तीक्ष्णा खुराकारा भूमिरगविवर्जिता ॥ ६१ ॥ आघातं सहते घोरं शाणे वह्नि वमत्यपि । खुराङ्गमिति जानीयात् पृथिव्यां नातिदुर्लभम् ॥ ६२ ॥ निर्मला समला भूमिभवेच्चैव कदाकदा । मन्दा तोबा भवेद्वारा तड़िहजस्य लक्षणम् ॥ ६३ ॥ नोलाजनसमा भूमिरङ्गं जलतरङ्गवत् । मेघाङ्गामिति जानीयाच्छाणे शीतं भवत्यपि ॥ ६४ ॥ एष खनाघमस्त्याज्यो यदीच्छे तिमात्मनः ।
भत्तः प्रतापं शमयेद्रविविम्ब यथा घनः ॥६५॥ (६) प्रकरौ इति (क) पुस्तक पाठः ।