________________
१५१
अखयुक्तिः। प्रियङ्ग सदृशन्त्वङ्ग भूमिश्च कपिलाक्कतिः । फलवचमिदं प्रोक्तं शाणे धूमं वमत्यपि ॥ ४२ ॥ अङ्ग सर्षपपुष्यामं भूमिश्चैव सितासिता। एतत् सर्षपवन स्याच्छाणे वह्नि वमत्यपि ॥ ४३ ॥ अपि कुण्डलिकां याति एतदत्यन्तकोमलम् । एतत् प्रसादात् क्षितिपः कृत्सां साधयते महीम् ॥ ४४ ॥ नोलोरससमा भूमिरङ्ग नीलोतरङ्गवत् । नोलोवजमिदं दृष्ट शाणे बङ्गिशिखां वमेत् ॥ ४५ ॥ एष खद्भवरो नृणामरिष्टभयनाशनः । रक्तास्तिस्रो महारखा भूमिश्चैब सितासिता॥ ४६॥ रक्ताङ्गमिति जानीयात् वैरिपक्ष-विनाशनम् । शाणेन यस्तु रतां वा नीलां वा वमते शिखाम् ॥ ४७ ॥ रक्तस्पर्शनमात्रेण स्वयमेव निकन्तति । क्षतेऽस्य रक्तश्खयथुस्तृषा दाहश्च जायते ॥ ४८ ॥ अङ्ग वचादलसमं भूमिश्चैव सितासिता । वचावचमिदं ज्ञेयं तत्क्षतादिषनाशनम् ॥ ४८ ॥ एष खगवरो राज्ञा साधनौयः प्रयत्नतः । रसोनादुत्तमं ह्यङ्ग भूमिस्तस्य दलोपमा ॥ ५० ॥ रसोनवज जानीयात् शाणे वह्नि वमत्यपि । अस्य धाव(र)नतोयेन आमवातविनाशनम् ॥ ५१ ॥ निरङ्का निर्मला भूमिर्धारा तीक्ष्णा खरः स्वयम् । सुमनावजमेतत्स्या वि नात्यन्तदुर्लभम् ॥ ५२ ॥ मञ्जिष्ठा सदृशा दीर्घास्तन्वयो रेखाः सुविस्तराः । जिङ्गवजमिदं नाम सर्वकामार्थ-साधनम् ॥ ५३ ॥ अङ्ग शमीपत्रसमं भूमिधुम्रा सितासिता।