________________
युक्तिकपतरोएतद्दावनतोयेन नूनमन्धोऽपि पश्यति ॥ ३१ ॥ प्रङ्ग केशसमं यस्य भूमिधूमा सितासिता। केशाङ्गमिति जानीयात् लेशदुःखभयापहम् ॥ ३२ ॥ निरङ्ग स्थूलप्रकृतिमुपलाङ्ग विदुवुधाः । एतदि प्रायशो लोके दृश्यते दिजसत्तम ॥ ३३ ॥ पद्मपुराणस्य,निरङ्गा निशिता धारा शाणे वह्नि वमत्यपि। द्रोणीवजमिदं जेयं पृथिव्यां नातिदुर्लभम् ॥ ३४ ॥ अङ्ग काकपदाकारं भूमिराघात निःसहा (५)। एष खद्भाधमस्त्याज्यो काकाङ्गो भूति मिच्छता ॥ ३५ ॥ यदा कपालमङ्गेषु दृश्यते स्पर्शत: खरम् । एतधि दुःखजनकं कपालाङ्ग बुधस्त्यजेत् ॥ ३६ ॥ तन्वौपना वलाझा या सुवर्णाङ्गासिपुत्रिका। पत्रवन्धकमाहुस्त आयुर्वेदविदो जनाः ॥ ३७ ॥ लौहार्णवेऽपि,सुप(व)णसबिभा भूमिरङ्ग कालं प्रतीयते । तत्पनवचं काकस्य सुप(व)र्णमुपजायते ॥ ॥ ३८ ॥ तुवरीदलसङ्काशं अङ्ग यस्मिन् प्रतीयते । तुवरीवचमाहुस्त तत्क्षते शिरसो भ्रमः ॥ ३८ ॥ एष खनाघमस्याज्यो यदीच्छेन्जीवनं निजम् । विम्बोदलसमा भूमिरङ्ग विम्बीफलोपमम् ॥ ४० ॥ विम्बीवचन्तु तदिद्यात् तज्जलं तिक्तमुच्यते । पित्तश्लेष्म विकाराणां प्रशमाय प्रयुज्यते ॥ ४१॥
(५) निश्चया इति (ग) पुस्तक पाटः ।