________________
१४८
अजयुक्तिः। अतसीफलसङ्काशमङ्ग भूमिः सितासिता । अतसौवच्चमाहुस्त तत्क्षते शिरसो रुजा ॥ १८ ॥ यदा सर्षपवीजाभमङ्ग भूमि: सितासिता । खरधारः खरस्पर्शः सर्षपाङ्गः स दुर्लभः । २० ॥ सिंद्याकारं भवेद्यस्य अङ्ग भूमि: सितासिता । सिंहीवजन्तु तद्विद्यात् तत्क्षते प्रलपेन्नरः ॥ २१ ॥ एतद्दावन-तोयेन कासरोगोप-नाशनम् । अङ्ग तण्डुलसङ्काशं भूमिधूम्रा सितासिता ॥ २२ ॥ तण्डुलाङ्गमिमं विद्याद् यशः श्रीवलवईनम् । एतत् पर्युषितं तोयं तण्डुलोदक-सन्निभम् ॥ २३ ॥ अस्य प्रभावान्मनुजो भ्रष्टां हि लभते श्रियम् । अङ्गञ्चेद गोक्षुराकारं भूमिराघात-नि:सहा ॥ २४ ॥ खनाधमिदं विद्याहोवच्चं नाम नामतः । स्थूला दीर्घाः शिराः कृष्णा भूमिश्चैव सितासिता ॥ २५ ॥ शिराङ्गमिति तं ब्रूयात् एनं खङ्गाधर्म वुधाः । शिवलिङ्गाकृतिश्चाङ्ग धारा चैव सिताथवा ॥ २६ ॥ शिराङ्गमिति तं ब्रूयाच्छत्रुपक्ष-निसूदनम् । यदा व्याघ्रनखाकारमङ्ग भूमिस्तु पिङ्गला ॥ २७ ॥ नखवचमिदं ब्रूयात् तत्क्षते श्वयथुर्भवेत् । एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि ॥ २८ ॥ ग्राहपुच्छोपमन्त्वङ्ग भूमिधूम्रा खराकृतिः । ग्राहाङ्गमिति जानीयाच्छक्रवंशोपनाशनम् ॥ २८ ॥ अस्य स्पर्शनमात्रेण जीवन्मत्या जहत्यसून् । यदा मनुजनेत्राभमङ्ग भूमिः सितासिता ॥ ३० ॥ नेवानमिति जानीयात् संग्राम विजयप्रदम् ।