________________
१४८
युक्तिकव्य तरो
लौहप्रदीपेऽपि -
धारा शुभ्रा भवेद् यस्य भूमि : कज्जलसन्निमा । कृष्णरङ्गैश्वितं वापि विद्यात् कज्जलवज्रकम् ॥ ८ ॥ मधुवर्णसमाभूमिरङ्ग' वा मधुविन्दुवत् । चौद्राख्यमिति (३) जानीयात् जयलक्ष्मीयशः प्रदम् ॥ १० ॥
शार्ङ्गधरेऽपि –
-
निम्नकक्षो भवेत् यत्र रात्रिन्दिव विलेपितः । मधुरो मधुवर्णाभः स खलो देववल्लभः ॥ ११ ॥ विशेषाञ्चात्र रज्यन्ति सततं मक्षिकादयः ।
सोम कोणिका यस्य क्षुद्राङ्ग कुण्डलीकृतम् ॥ १२ ॥ क्षुद्रवच्चकनामानं प्राह नागार्जुनो मुनिः ।
इदं कुण्डलवज्रच्च प्राह लौहार्णवे मुनिः ॥ १३ ॥ अस्य चतेषु वलवान्दाहो मम विलोकित: । यदङ्ग' मचिकाकारं भूमिव सितासिता ॥ १४ ॥ स्नेहः शुष्यति चैवात्र मक्षिकाङ्ग तमादिशेत् । अङ्ग यदा तुषाकारं या च भूमिः सितासिता ॥ १५ ॥ तुषवच्चमिदं ख्यातं प्राह नागार्जुनो मुनिः ।
अङ्ग यवफलाकारं भूमिः कृष्णा सिता तथा ॥ १६ ॥ यवाङ्गमिति तं विद्यात् तत्स्पर्शे कण्डु-सम्भवः । एष खनाधमस्त्याज्यो यदीच्छेन तिमात्मन: (४) ॥ १७ ॥ श्रङ्ग' व्रीहिप्रसूनाभं भूमिर्धूम्बा हतेऽतिरुक् । तदुव्रीहि वच्च जानौयाच्छत्रूणां भयवर्द्धनम् ॥ १८ ॥
(३) चौद्राभमिति (क) पुस्तक पाठः । ( 8 ) भूमिरात्मनः इति (ख) पुस्तक पाठः ।