________________
११७
प्रणयुक्तिः। जईगं कपिलाभासमज यस्मिन् प्रतीयते । अर्द्धवजमिदं प्राहुर्विषवेगनिसूदनम् ॥ ८८ ॥ लौहप्रदीपेऽपि,जडे गं कपिलाभासमङ्ग यस्मिन् प्रतीयते । लाङ्गलाङ्गन्तु तदिद्यात् स्पर्श तस्याहि नाशनम् ॥ १८ ॥ अङ्ग मरीचसङ्काशं भवेद्भमिः सितेतरा। मरीचाङ्गमिदं वचं तत्क्षते कटुरताता ॥ १०॥ तक्षालन-तोयेन नश्यन्ति पौनसादयः । यदा सर्पफणाकारमङ्ग भूमिस्त निर्मला ॥ १ ॥ भूजङ्गवलं तदिद्यात् तत्क्षते विषवट्ठजा। तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते ॥ ३ ॥ एकस्यास्य प्रसादेन कत्नां शास्ति महीं नृपः । यदाश्वखुरसङ्काशं अङ्ग भूमिस्तु निर्मला ॥ ३ ॥ प्रश्वाङ्गमिति तं विद्यात् खन परमदुर्लभम् । तस्य संयोगमात्रेण वाजी मन्दोऽपि धावति ॥ ४ ॥ तस्य क्षालन तोयेन हयानां रोग-नाशनम् । एतत्क्षते भृशं मूर्छा दाहश्च भ्रम (२) एव च ॥ ५ ॥ मयूरपिच्छसदृशं अङ्ग भूमिः सितेतरा। वर्हाङ्गमिति तं विद्यात् तत्क्षते वान्तिरिष्यते ॥ ६ ॥ सर्पाणामिह सर्वेषामस्य स्पर्धा सहिष्णुता । एतदेव नृपतिभिर्भाग्यैः कुत्रापि लभ्यते ॥ ७ ॥ भूमिरचनसंकाशा धारा चास्य सिता भवेत् । अचनाख्यमिदं प्रायः सर्वदैवोपलभ्यते ॥ ८ ॥
(२) दुम इति (क) पुस्तक पाठः ।