________________
युक्तिकमतरोधूम्रवर्णा भवेडमि रङ्ग वह्नि-शिखोपमम् । अग्निववमिदं ज्ञेयं शत्रूणां दाहकारकम् ॥ ८६ ॥ पत्र शीतोदकं न्यस्तं तप्त भवति च क्षणात् । शाणे वह्नि वमेद् यस्तु तथा सूर्यांशु-सङ्गमात् ॥ ८७॥ तत्क्षते वलवान् दाहो दग्धवञ्च व्रणो भबेत् । एतत्परम-भाग्येन लभ्यते धरणी-तले ॥ ८८ ॥ भूमिः सिता तिला वापि अङ्गञ्चेत् पिप्पली-प्रभम् । कणावजमिदं ज्ञेयमन्त हस्तु तत्क्षते ॥ ८८ ॥ क्षणाभूमियदैवाङ्गे दृश्यते ग्रन्थिसञ्चयः । प्रन्थिवचमिदं ज्ञेयं वैरिपक्ष-विनाशनम् ॥ २० ॥ तत्क्षते वलवान् दाहस्तृषा च ज्वर एव च । शालपर्णीदलाकारमङ्ग कृष्णासि-पुत्रिका ॥ ११ ॥ स्थिरा वजमिदं प्राहुस्तत्क्षते वेपथुर्भवेत् । यदा तित्तिरिपक्षाभमङ्ग भूमिः सितेतरा ॥ १२ ॥ एतत् तित्तिरिबज स्यात् तत्क्षते वहुधेनवः । वनमाला-समा यस्मिन् माला खड़गे प्रदृश्यते ॥ ८३ ॥ मालाङ्गमिति तदिद्यात् तत्तोयं गन्धवद्भवेत् । अत्र तप्तोदकं न्यस्तं शीतं भवति तत्क्षणात् ॥ ८४ ॥ एष दाह-परीतानामृते पित्तहतात्मनाम् । भवेत् परमभैषज्य भाग्य नैतद्धि लभ्यते ॥ ४५ ॥ यदा जोरकसङ्काशमङ्ग भूमिः सितासिता । एतन्नौरकवच स्यात् तत्क्षते तत्क्षणाज्ज्वरः ॥ ८६ ॥ भूमिः सितासितक्षेत्रा अङ्ग भृङ्गामिष्यते । तबच्चेन्मध्यमं न्यस्तं शेषमाप्नोति केवलम् । ८७ ॥ एतद भ्रमरवज्यं स्यात् तत्क्षते स्यादिसूचिका।