________________
१४५
अखयुक्तिः।
लौहप्रदीपेऽपि । निरङ्गरूप्यपत्राभमीषन्मणिनिभञ्च यत् । दुर्लभं तन्महामूल्य कान्तलौहं प्रचक्षते ॥ ७५ ॥ कृष्णाभूमिर्भवेत् खच्छा पौता वजाङ्गसङ्गता। कष्णवचमिति प्राहुस्तत्क्षते मोह उच्यते ॥ ७६ ॥ प्रदीपेऽपि,क्वाष्णाभूमि सुवर्णाभमौषच्छुक्लाङ्गसङ्गतम्। डाहुलीवजकं (१) विद्यात् कालसंजमथापरे ॥ ७७ ॥ अरुणं सूक्ष्ममूर्ख वेदङ्ग भूमिः सितेतरा । अरुणाख्यमिदं वचं शत्रुदर्प-निसूदनम् ॥ ७८ ॥ सूर्यांशस्पर्शमात्रेण वह्निरूपां वमेच्छिखाम् । तस्य स्पर्शनमात्रेण पद्मकोषः स्फुटेबिशि ॥ ७ ॥ दुर्लभं तन्मनुष्याणां भाग्यैः कुत्रापि लभ्यते । तद्योजनसहस्रस्य रिष्टं नाशयति ध्रुवम् ॥ ८० ॥ खेतास्तिस्रो यदा रेखा आमूलादुपलक्ष्यते । खेताङ्गमिति तद्विद्यादयशोलमोवल-प्रदम् ॥ ८१ ॥ अम्भोजदलसङ्काशं अङ्ग भूमिः सितेतरा। अम्भोज वज तज्ज्ञेयं कथितं मुनिपुङ्गवः ॥ २ ॥ अङ्गं यस्य गदाकारं भूमिश्चैव सितेतरा। गदावचमिदं ब्रूयात् तत्क्षते शूल-सम्भवः ॥ ८३ ॥ अङ्गं कृष्ण-तिलाकारं भूमिश्चैव सिताऽसिता। तिलवचमिदं ज्ञेयं लक्ष्मीवलयशःप्रदम् ॥ ८४ ॥ तत्क्षते तिलतैलाभा वसा प्रयवतेऽधिकम् ॥ ८५ ॥
(१) कद्रुकं इति.(क) पुस्तक पाठः ।
१२