________________
१४४
युक्तिकल्पतरोएष खङ्गवरो दद्यालक्ष्मीमायुयशोवलम् । वर्णरेखावली तन्वी यश मौ.निकषोपमा ॥ ६४ ॥ स्वर्णवचमिति प्राहुरायुलक्ष्मीर्जय-प्रदम् । गजशुण्डावतिभूमौ क्वष्णायामङ्गसम्भवः ॥ ६५ ॥ गजवजमिति प्राहुः रक्तस्पर्श तु तदिशेत् । ज्वरादि व्याधिगमनं तस्य प्रक्षालनाम्भसा ॥ ६६ ॥ अपि क्षीणोऽपि भूपालस्तद्दोऱ्यात् साधमेन्महीम् । एरण्डवीजप्रतीम मङ्ग भूमिः सिलेतरा ॥ ६७ ॥ रुवुवचमिदं नाम्ना शत्रुदर्प-क्षयङ्करः । एतस्य स्पर्शमात्रेण नरः सम्यग्विमुच्यते ॥ ६८ ॥ महिषास्यमिदं वज्र केचिदाहुमनीषिणः । अङ्गं दमद(न)पत्राभं खड्ने यस्मिन् प्रतीयते ॥ ६८ ॥ विद्याहमनवज्रञ्च तज्ज्ञेयं द्विविधं वुधैः।। नौला शुभ्रा भवे मिस्तबनोला गरीयसी॥ ७० ॥ तस्मिन् पर्युषितं तोयं गन्धे दमनकोपमम् । तत्प्रभावान्महीपालः कत्नां पृथ्वी हि साधयेत् ॥ ७१ ॥ शाङ्ग धरस्य,एकास्थलासिता रेखा-भूमिर्चीला दृढ़ा यदि । स्थूलाङ्गमङ्गवचं तद्विद्यालक्ष्मी यश: प्रदम् ॥ ७२ ॥ एतत् क्षते (१) भवेच्छोथः स्थूलचिरतरस्थितिः । एतं महान्तमपर वदन्ति खगकोविदाः ॥ ७३ ॥ पृष्टायां दृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम् । अङ्गवज भवेत्तस्य विधाभूमिः सितासिता ॥ ७४ ।
(१) क्षेत्र इति (क) पुस्तक पाठः ।