________________
अनयुक्तिः।
१४३ पुत्रिका चामरः शैल: पुष्पमाला भुजङ्गमः । त्रिंशदेतानि नेत्राणि खङ्गानां कथितानि वै ॥ ५५ ॥
___ अथ त्रिंशदरिष्टानि। छद्रं (१) काकपदं रेखा भेको मूषिक एव च । विड़ाल: शर्करा नीली मशको भृङ्गसूचके ॥ ५६ ॥ त्रिविन्दुः (२) कालिका पावो (दारी) कपोतः काक एव च । खपरः शकली क्रोडी कुशपुत्रकजालिके ॥ ५७ ॥ करालकसखज्जर शृङ्गपुच्छ खनित्रकम्।। लागलं शूर्प वडिशो मुनिना तत्त्ववेदिना ॥ ५८॥ प्रोतान्येतान्यरिष्टानि खड्गानां त्रिंशदेव हि। दिव्य भौमविभागेन भूमिस्तु द्विविधा भवेत् ॥ ५८ । हंसकांस्यानढकानां काकतन्त्री खराश्मनाम् । धनयोऽष्टविधाः प्रोक्ता नागाजन-मुनर्मताः ॥ ६ ॥ उत्तमाधम भेदेन मानन्तद्दिविधं भवेत् । इति प्रोक्तानि सूत्राणि खङ्गानां ज्ञानहेतवे ॥ ६१॥
एतानि तत्त्वतो ज्ञात्वा भवेन्नपति-पूजितः ॥ ६२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खगपरीक्षायां सूत्राध्यायः ।
तत्र प्रथमतोऽङ्गानां लक्षणानि निवोधतः ॥ लौहद्दीपे,रौप्यपत्रसमा भूमिर खेतं प्रतीयते ।
जङ्घ तत्तु महामूल्य रूप्यवचमुशन्ति तम् ॥ ६३ ॥ (१) चत्रं इति (क) पुस्तक पाठः। (२) त्रिविदुः इति (ख) पुस्तक पाठः ।