________________
अपरेहि सुप्राचीन निवन्धकारा भोजराजोय-ग्रन्यानामुल्लेखं विदधुः। शूलपाणिः प्रायश्चित्तविवेके, श्रावविवेकप्रारम्भे च भोजकृत-कामधेनुग्रन्थस्य नाम उल्लिलेख । तथाच- ...
___ "विलोक्य धर्मशास्त्राणि कामधेन्वादिसंग्रहान् ।” अयं कामधेन्वाख्यग्रन्थ भोजराजाज्ञया विरचित एव। रघुनन्दन भट्टाचार्य: प्रायश्चित्ततत्त्व, मलमासतत्त्व, ज्योतिस्तत्त्वादिषु, श्रीकृष्णतर्कालङ्कारः श्राद्धविवेक टोकायां, श्रीमन्माधवाचार्य: कालमाधवे, वैद्यकेरुग्विनिश्चये, भावमिश्रः-भावप्रकाशे, केशवाकः-ज्योतिग्रन्थे; क्षीरस्वामो-अमरटौकायां, सायणाचार्य:-खोयग्रन्थे, छित्तपः; देवेश्वरः विनायकः इत्येते कवयोऽपि प्रशंसापुरःसरं भोजराजकतग्रन्यनामोल्लेखं कृतवन्तः। वाचस्पतिमिश्रः (दर्शने) भोजराजीय राजवार्त्तिककारिकोल्लेखं तत्त्वकौमुद्यावसाने कतवान्। नेदं राजवार्तिकं जैनदर्शनव्याख्यानभूतम् । महाराजराधाकान्तदेव वाहादुरेण शब्दकल्पद्रुमे भोजराजीय-ग्रन्थनाम वहुधा व्यधायि। भोजराज: परमशैव आसोदिति योगसूत्रबत्तिस्थ-तदीय लोकेभ्योऽनुमौयते। स तब वहुधा शिवमस्तौषोत् । तदीय दानपत्रे एवमेवास्ति।
कामन्दकोयनीतिसारस्थानां (८म, ११श, १३श सर्गेषु ५, ४२, २३, ३०, ३३, ४४, ४५) इयत्संख्याक-श्लोकानां युक्तिकल्पतरुस्थैः कतिपय श्लोकः समं सम्यक् सारूप्यमस्ति । नीतिसारोऽयं ख्रीष्टाब्दे प्रथमशतके विरचितः। खोटाब्द षष्ठशतकस्थेन दण्डिसूरिणा दशकुमारचरितस्य प्रथमोच्छासावसाने कामन्दकोयं स्मर्यते । एष नोतिसारः खोष्टाव्दारम्भ-समये बालिहोप-यवहौप गच्छभिहिन्दुभिर्भारतवान्नीत इति स्व प्रकाशित नोतिसारभूमिकायां राज राजेन्द्रलालमित्र महाशयः प्राह। अतोनुमीयते कामन्दकोयनीति