________________
(THE)
मात्यपदमधिरूढ़ इति तस्मिन् चिन्तामणौ सुदीर्घं वृत्तमासीदिति ।
राजश्च शकाब्दे ( ११७० ) मिते ( खुः १२४५ ) वभूवेति काव्यमाला मुद्रित- प्राचीन लेखमालाया (३८) संख्यकाद्दानपत्र - प्रकटितादवगम्यते । एतस्मिन्नेव समये नासिकत्रयम्बके श्रौमदमलानन्दयतोन्द्रेण वेदान्तकल्पतरुर्व्यरचि । अतो भोजभूभुक् एभ्यः पूर्व्ववर्त्तीति सम्यक् श्रभाति ।
भोजराज विरचित ग्रन्थास्तु एवमन्यत्र दृश्यन्ते, -
अलङ्कारे – ( सरस्वती- कण्ठाभरणम् ), योगे - (राजमात 'डम्), ज्योतिषे -- ( राजमार्त्तण्डः, विद्दज्जनवल्लभः, भादित्यप्रतापः), वैद्यके( राजसृगाङ्ककरणम्, आयुर्वेद सर्व्वस्वम्, विश्रान्तचिन्ताविनोदः ), वास्तुशास्त्रे – (समराङ्गणम् ), काव्यशास्त्रे - (शृङ्गारमन्तरीकथा ), धर्मशास्त्रे - ( भोजचम्पूः, व्यवहारसमुच्चयः, चारुचर्य्या), शैवदर्शने - ( तत्त्वप्रकाशः, नाममालिकाकोशः ), नीतिशास्त्र - (युक्तिकल्पविद्याविनोदकाव्यम् ), पाणिनीये - ( शब्दानुसासनम् ), अश्वशास्त्र' – ( शालिहोत्रोयम् ), शैवे - (शैव सिदान्त संग्रह: ), प्रश्न - चिन्तामणिः, शिवदत्तम्, रत्नकलिका, सूत्रधारोयम् ), सुभाषिते - ( सुभाषितप्रवन्धः ) इति । *
तरः,
अलफट्क् साहेवस्तदीय ( See Catalogus Catalogorum I, p. 478) 'क्याटालोग स् क्याटालोगीराम्' नामक ग्रन्थे, युक्तिकल्पतरुः येषु ग्रन्थेषु व्यवतस्तेषां नाम सूचिकां प्रददौ । परमुक्त साहेवमतं येषां सन्दर्भाणां भोजराजविरचितत्वेन प्रसिद्धिरस्ति तेषु एकोऽपि ग्रन्थस्तेन राज्ञा नैव विरचित इति । अन्य साहेवोक्का ग्रन्था भोजरचिताः सन्तु वानवा परमयं कल्पतरुभौनविरचित एव । ( अन्यत् इण्डो . परियन्स द्वितीयखण्डे ) ।