________________
युक्तिः । वृत्तत्वं स्निग्धताच्छन्नं शङ्खस्येति गुणत्रयम् । आवर्त्त भङ्गदोषो हि हेम-योगाद्दिनश्यति ॥ २० ॥ ब्रह्मादि-जातिभेदेन स पुनस्तु चतुर्व्विधः ॥ २१ ॥
तद्यथा,
ये स्निग्धमसृणाकारा मृदवो लघवस्तथा । ब्राह्मणाः प्रस्तरा ज्ञेयाः सर्व्वकम्मसु शोभनाः ॥ २२ ॥ ये दृढ़ाङ्गाः सुगुरवः तथांशांश-विभागिनः । अश्मान: चत्रिया ज्ञेयाः कर्कशाङ्गास्तथैव च ॥ २३ ॥ मृदवो गुरवो ये तु ये स्नेहेनेव रक्षिताः । ते वैश्याः सु (स्व) विभक्तांशा युज्यन्ते सर्व्वकर्मसु ॥ २४ ॥ ये कर्करावृताङ्गाश्च कर्करा ये प्रतिष्ठिताः । येऽत्यन्तगुरवः स्निग्धाः ते शूद्राः प्रस्तराधमाः ॥ २५ ॥ इति प्रोक्तमशेषेण सम्यक् पाषाण - लक्षणम् । विचार्य मतिमान् कार्य्ये नियोक्तव्यं विचक्षणैः ॥ २६ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ शङ्करत्न परीक्षा ॥ ( इत्यलङ्करण युक्ति: । )
अथास्वयुक्तिः ।
दण्डसाध्यं यतो राज्यं स दण्डः शास्त्र-संश्रितः 1 अस्त्राणि भूमिपालानां निरूप्यन्ते ततः क्रमात् ॥ २७ ॥
अथ गणना ।
खगचर्म-धनुर्व्वाणौ शत्वभनौ तथापरौ । अर्धचन्द्रश्च नाराचः शक्तियष्टौ तथापरे ॥ २८ ॥
१३८