________________
११७
स्फटिकयुक्तिः। न तत्तुल्यं हि रत्नानामथवा पापनाशनम् । संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिलभेत्ततः ॥ ४ ॥ तथा च,हिमालये सिंहले च विन्ध्याटवीतटे तथा । स्फटिकं जायते चैव नानारूपं समप्रभम् ॥ ५ ॥ हिमाद्री चन्द्रसङ्काशं स्फटिकं तद् द्विधा भवेत् । सूर्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथापरम् ॥ ६ ॥ सूर्यांशु-स्पर्शमात्रेण वह्नि वमति यत् क्षणात् । सूर्यकान्तं तदाख्यातं स्फटिकं रनवेदिभिः ॥ ७ ॥ पूर्णेन्दुकरसंस्पर्शात् अमृतं सवति क्षणात्। चन्द्रकान्तं तदाख्यातं दुर्लभं तत् कलौ युगे ॥ ८ ॥ अशोक पल्लवच्छायं दाडिमोबीज सबिभम् । विन्ध्याटवीतटे देश जायते मन्दकान्तिकम् ॥ ८ ॥ सिंहले जायते कृष्णमाकर गन्धनौलके । पद्मरागमवे स्थाने विविधं (१) स्फटिकं भवेत् ॥ १० ॥ अत्यन्तनिर्मलं स्वच्छं सवतीव जलं शुचि । ज्योतिज्ज्वलनमाश्लिष्टं मुक्ताज्योतीरसं हिज ॥ ११ ॥ तदेव लोहिताकारं राजावत्र्तमुदाहृतम्।
आनोलं तत्तु पाषाणं प्रोक्तं राजमयं शुभम् ॥ १२ ॥ ब्रह्मसूत्रमयं यत्तु प्रोक्त ब्रह्ममयं द्विज ॥ १३ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ स्फटिकपरीक्षा।
(१) विविधम् इति (क) पुस्तक पाठः ।
१८