________________
युक्तिकल्पतरोमृत्युप्रदास्तु विदुषा परिवजनीया
मूल्यं पलस्य कथितञ्च शतानि पञ्च ॥ १८॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पुलकमणि-परीक्षा।
अथ रूधिराख्यपरीक्षा। हुतभुपमादाय दानवस्य यथेप्सितम् । नर्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले ॥ ८ ॥
तवेन्द्र गोपकलितं शुकवनवणे, संस्थानतः प्रकटपौलुसमानमात्रम् । नाना प्रकारविहितं रुधिराख्यरत्नमुद्धृत्य तस्य खलु सर्वसमानमेव । १०० ॥ मध्येन्दुपाण्डुरमतीव विशुद्धवर्ण, तच्छन्द्रनौलसदृशं पटलं तुले स्यात् । सैश्वयंभूत्यजननं कथितं तदेव,
पक्कञ्च तत् किल भवेत् सुरवजवर्णम् ॥ १॥ इति श्रीभोजराजीये युक्तिकल्पतरौ रुधिराख्य परीक्षा।
अथ स्फटिक लक्षणम् । तथा च गारड़ेकावेर-विष्य-यवन-चीन-नेपाल भूमिषु । लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥२ । अाकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः । मृणालशङ्ख-धवलं किञ्चित् वर्णान्तरान्वितम् ॥ ३॥