________________
१२६
युक्तिकल्पतरोधारणे तस्य सम्प्रोतिरायुश्चैवविनश्यति । शर्करामिश्रितमिति तद्दिज्ञेयं सशर्करम् ॥ १४ ॥ तस्मिन् ते दरिद्रत्वं देशत्यागश्च जायते । भेद-संश्रयहत्वासस्तेन दंष्ट्रिभयम्भवेत् ॥ १५ ॥ भिन्न भिवमिति प्राहुर्भा-पुत्र-विनाशनम् । मृत्तिका यस्य गर्भस्था लक्ष्यते रत्नकोविदः ॥ १६ ॥ मृत्तिकागर्भकं नाम त्वग्दोष-जनकम्भवेत् । दृशत् प्रलक्ष्यते गर्भ अश्वगर्भ विनाशकत्(हृत्) ॥ १७॥ चित्रवर्ण इवाभाति चित्रकः कुलनाशनः ॥ १८ ॥ तथा च,अनक-पटलच्छाया त्रासश्चित्रक एव च । मृदश्मगर्भरोक्षाणि महानीलेषु दूषणम् ॥ १८ ॥ अथच्छाया,नौलोरसममाभासा वैष्णवीपुष्यसनिभा । नवनी-पुष्यसंकाशा नौलेन्दीवर-सबिभा ॥ २० ॥ अतसीपुष्पसंक्राशा चाषपक्ष-समच्छविः । कृष्णाद्रि-कर्णिकापुष्य समान-द्युति-धारिणी ॥ २१ ॥ मयूरकण्ठ-सच्छाया शम्भु कण्ठसमा तथा । विच्छादेह-समाभासा भृङ्गपक्षसम-प्रभा ॥ २२ ॥ इन्द्रनीले ते शुद्धे शौरिरेषः प्रसौदति। आयुः कुलं यशो वुद्धिलक्ष्मी शोभा च वईते ॥ २३ ॥ धार्यमानस्य ये दृष्टाः पद्मरागमणेर्गुणाः । धारणादीन्द्रनीलस्य तानेवाप्नोति मानवः ॥ २४ ॥
अथ परीक्षा [ इन्द्रनीलस्य ] । काचोत्पलकरवीर स्फटिकाद्या इह वुधैः स वैदूयाः ।