________________
मरकतयुक्तिः । कथिता विजातय इमे सदृशा मणिनेन्द्रनोलेन ॥ २५ ॥ गुरुभावकठिन-भावावेतेषां नित्यमेव विजेयौ। काचाद यथावदुत्तर-विवई मानौ विशेषेण ॥ २६ ॥ इन्द्रनीलो यदा कश्चिदिभाताम्रवर्णताम् । रक्षणीयौ तथा ताम्रौ करवोरोत्यलावुभौ ॥ २७ ॥ यावन्तञ्च क्रमदग्निं पद्मरागः प्रयोगतः । इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ॥ २८ ॥ तदाकर-समुद्भूतो मत्तभृङ्ग-सम-द्युतिः । दीप्तिच्छाया-समाविष्टो चामरो मणिरुच्यते ॥ २८ ॥ आरक्तता सदा तत्र तदा टोटिभसंजितः । तस्य धारणमात्रेण गर्भिणी स्त्री प्रसूयते ॥ ३० ॥
अथ मूल्यम्,यत्पद्मरागस्य महागुणस्य, मूल्यम्भवेन्माष(स)-समुश्रि(स्थि)तस्य । तदिन्द्रनीलस्य महागुणस्य ;
सुवर्णसंख्या तुलितस्य मूल्यम् ॥ ३१ ॥ इति श्रोमोजराजोये युतिकल्पतरौ इन्द्रनील परीक्षा ॥
अथ मरकत परीक्षा। गरुड़पुराणे,दानवाधिपतेः पित्तमादाय भुजगाधिपः । विधा कुर्वत्रिव व्योम-सत्वरं वासुकिर्ययौ ॥ ३२ ॥ (स तदा ख-शिरोरत्न-प्रभादीप्ते नमोऽम्बुघौ।