________________
१२॥
इन्द्रनीलयुक्तिः । यस्य मध्यगता भाति नीलस्येन्द्रायुध-प्रभा । तदिन्द्रनीलमित्याहुमहाध्यं भुवि दुर्लभम् ॥ ३ ॥ यस्तु वर्णस्य भूयस्त्वात् चोरे शतगुणे स्थितः । नोलतां तबयेत् सर्व महानीलः स उच्यते ॥ ४ ॥ तथा च,इन्द्रनीलस्तु नौलात्मा पद्मरागस्तु लोहितः । आनोल-शुक्ल-सिग्धस्तु मणिर्मानवकोमतः ॥ ५ ॥ आलोहित-मपीतञ्च स्वच्छ काषायकं विदुः । आपीत-पाण्डु-पाषाणः पुष्परागोऽभिधीयते ॥ ६ ॥ तमेव लोहिताकारमाहुः कोरण्डकं वुधाः ॥ ७ ॥
___ अथ गुणाः। गुरुः स्निग्धश्च वर्णाव्यः पार्श्ववाञ्चैव रजकः । इन्द्रनीलः समाख्यातः पञ्चभिः सुमहागुणैः ॥ ८ ॥ प्रमाणेऽल्पोगुरुर्माने कुरुद्धि-करो गुरुः । नेहं सवदिवाभाति स्निग्धं धनविवईनम् ॥ ९ ॥ बालार्काभिमुखो नौलो वमन्त्रीलां शिखां हि यः। वर्णाब्यो नाम नीलोऽयं धनधान्य-विवईनः ॥ १० ॥ . स्फाटिकं रजतं स्वर्णमन्यहा वस्तु तैजसम् । पाच स्थितं नील-मणि: पाचवर्ति यशः प्रदम् ॥ ११ ॥
आश्रयं नीलमणियंत्तु तमसेव समातम् । रञ्जको नाम नौलोयं श्रीयशः कुलवर्द्धनः ॥ १२ ॥
__ अथ दोषा: [ इन्द्रनीलस्य ] । दोषा नीले प्रवक्ष्यामि नामभिलक्षणैश्च षट् । अभवत् पटलं यस्य तदभ्रकमिति स्मृतम् ॥ १३ ॥