________________
१२४
युक्तिकल्पतरोतत्प्रत्ययादुभय-शोभन-वीचिभासा, विस्तारिणी जलनिधेरुपकच्छभूमिः । प्रोशिव केतकवन-प्रतिवद्ध-लेखा ; सान्द्रेन्द्रनीलमणि-रत्न-वती विभाति ॥ ८६ ॥ तत्रासितान-हलभृहसनासिभृङ्गशायुधाभ-हरकण्ठ-कलाय-पुष्पैः । शक्ततरैश्च कुसुमैगिरिकर्णिकायास्तस्मिन् भवन्ति मणयः सदृशावभासः ॥ ८७ ॥ अन्ये प्रसवपयसः पयसां निधातुरम्बुल्विषः शिखिगण-प्रतिमास्तथाऽन्ये।' नोलौरसप्रभा (१) वुहुदभाश्च केचित् ;
केचित्तथा समद(२)कोकिलकण्ठ-भासः ॥ १८ ॥ एक प्रकारा(३)बिस्पष्ट-वर्णशोभावभासिनः । जायन्ते मणयस्तस्मिन् इन्द्रनीला महागुणाः ॥ ८ ॥ श्वेतनीलं रक्तनौलं पोतनौलमथापि वा। कृष्णनौलं तथा ज्ञेयं ब्राह्मणादि क्रमेण तु ॥ छाया चतुर्विधा तस्य शृणु वक्ष्यामि लक्षणम् ॥ १० ॥ सितच्छायो भवेद् विप्रस्ताम्रश्छायस्तु क्षत्रियः । पीतच्छायस्तु वैश्यः स्याहषलः कृष्ण-दीधितिः ॥ १ ॥ तथा च पद्मरागाणां जातक-त्रितयम्भवत् । इन्द्रनीलेष्वपि तथा द्रष्टव्य-मविशेषतः ॥ २ ॥
(१) प्रसभ इति (ख) पुस्तक पाठः । (२) केचित्तथा समल इति (क) पुस्तक पाठः । (३) -नेक प्रकारा इति (ग) पुस्तक पाठः ।