________________
युक्तिकल्पतरोनवमात्पञ्चमं यावत् कलओन समं यदा * | तत्क्रमादुत्तमं जेयं मोक्तिक रत्न-वेदिभिः ॥ ६२ ॥ चतुर्दशाक्षामारभ्य दशसंख्या-विधि क्रमात् । कलञ्जस्य समानं वा (३) मौक्तिकं मध्यमं विदुः ॥ ६३ ॥ आरभ्य विंशतितमात् क्रमात्यञ्चदशावधि । लङ्घयास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ ६४ ॥ कलञ्जयमानेन यद्येकं मौक्तिकम्भवेत् । न धार्य नरनाथैस्तु देव-योग्यममानुषम् ॥ ६५ ॥ इत्यं विचार्य यो मुक्तां परिधत्ते नराधिपः । तस्यायुश्च यशो वीर्य विपरौतमतोऽन्यथा ॥ ६६ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ मुक्तापरीक्षा ॥
अथ वैदर्य परीक्षा कल्पान्तकाल क्षुभिताम्बराशि, निर्हादकल्पा दितिजस्य नादम् । वैदूर्यमुत्पबमनेकवर्णं ;
शोभाभिरामं द्युतिवर्ण-वीजम् ॥ ६७ ॥ अविदूर विदूरस्य (४) गिररुत्तङ्ग-रोधसः ।
कामभूतिक-सौमान-मनु तस्याकरोऽभवत् + :: ६८ ॥ (३) समानत्वात् इति (ख) पुस्तकपाठः । (४) अविदूरे वैदूर्यस्य इति (ग) पुस्तक पाठः ।
* नवमात् पञ्चमं यावत्-इत्यारभ्य मध्यमम्विदुरित्यन्त श्लोकहयं (क) पुस्तकऽधिक दृश्यते। ___ + कामभूतिकसीमानं इति पाठमनादृत्य ‘काकतालीयसीमान्ते मनौनामाकरौऽभवत्' इत्येवं वृद्धबचनमित्युत्तामल्लिनाथन कुमारसम्भव टौकायान्तदवादि ।