________________
मुक्तादिमूष्ययुक्तिः ।
शतमचाधिकं हे च चूर्णोऽयं परिकीर्त्तितः ॥ सप्त-पञ्च-त्रयश्चैव तेषां मूल्यमनुक्रमात् ॥ ५१ ॥ शाणात्परं माषकमेकमेकं यावद्धिवर्डेत गुणैरपीदम् । मूल्येन तावत् द्विगुणेन योग्य माप्नोत्यऽनावृष्टिहतेऽपि देशे ॥ ५२ ॥ सूक्ष्मातिसूक्ष्मोत्तममध्यमानां,
यन्मोक्तिकानामिह मूल्यमुक्तम् । तज्जातिमात्त्रेण न जातु काय्यं ; गुणैरहीनस्य हि तत्प्रदिष्टम् ॥ ३ ॥
यत्तु चन्द्रांश - संकाशमोषद्दिम्बफलाकृति । स्वमूल्यात् सप्तमं भागमवृत्तत्वान्नभेत तत् ॥ ५४ ॥ पोतकस्य भवेदर्द्दमवृत्तस्य त्रिभागतः । विषमव्यस्तजातीनां षड्भागं मूल्यमादिशेत् ॥ ५५ ॥ अर्द्धरूपाणि सस्फोटात् पङ्कचूर्णानि यानि च । असाराणि च यानि स्युः करकाकारवन्ति च ॥ ५६ ॥ एकदेशप्रभावति सकलाश्लेषितानि च । यानि चातकवर्णानि कांस्यवर्णानि यानि च ॥ ५७ ॥ मौननेत्र - सवर्णानि ग्रन्थिभिः संवृतानि च । सदोषानि च यानि स्युस्तेषां मूल्यं पदांशिकम् ॥ ५८ ॥ अन्यत्र तु,-~~ सञ्चालो प्रोच्यते गुष्ना सा तिस्रो रूपकम्भवेत् । रूपकैर्दशभिः प्रोक्तः कलष्जो नामनामतः ॥ ५८ ॥ कलज्ञ्जनामकं द्रव्यं एकदेशे निधापयेत् । अन्यतो जलविन्दुस्तु तोलनाथं विनिक्षिपेत् ॥ ६० ॥ चत्वारि त्रीणि युग्मं वा तथैकं बहु वा स्थितम् । समं कलज्जमानेन तुलामानादतः क्रमात् ॥ ६१ ॥
११८