________________
११८
युक्तिकल्पतरोगुञ्जाश्च षड् धारयतः शते हे, मूल्य परं तस्य वदन्ति तज्ज्ञाः । गुञ्जाश्चतस्रो विधृतं शताड़ादई लभेताप्यधिकं त्रिमि ॥ ४३ ॥ अतःपरं स्यावरण-प्रमाणं, संख्याविनिर्देश विनिश्चयोक्तिः । त्रयोदशानां धरणे धृतानां; हिक्केति नाम प्रवदन्ति तज्ज्ञाः ॥ ४ ॥ अध्यर्षमात्रञ्च शतं कृतं स्यात्, मूल्य गुणैस्तस्य समन्वितस्य। यदि षोड़शभिर्भवेत् सम्प णें ; धरणं तत् प्रवदन्ति दार्विकाख्यम् ॥ ४५ ॥ अधिकं दशभिः शतञ्च मूल्य, समवाप्नोत्यपि वालिशस्य हस्तात् । यदि विंशतिभिर्भवेत् सुपूणं ; धरणं मौक्तिक वदन्ति तज्ज्ञाः ॥ ४६ ॥ नवसप्ततिमान यात् स्वमूल्य,
यदि न स्यात् गुणयुक्तितो विहीनम् ॥ ४७॥ त्रिंशता धरणं पूर्ण शिक्येति परिकीर्त्यते । चत्वारिंशत्यरं तस्य मूल्यमेष विनिश्चयः ॥ ४८ ॥ चत्वारिंशद्भवेत् शिक्या त्रिंशन्मूल्य लभेत सा । पञ्चाशत्तु भवेत् सोमस्तस्थ मूल्यन्तु विंशतिः ॥ ४८ ॥ षष्ठिनिकरशीर्ष स्यात् तस्य मूल्य चतुर्दश । अशौतिर्नवतिश्चेति-कुप्यति परिकल्पाते ॥ ५० ॥ एकादश स्युनंवच तयोमूल्यमनुक्रमात् ।