________________
मुक्तादोषयुक्तिः ।
१६ ॥
प्रायो विमुक्तानि भवन्ति मासा ( : ) ; शस्तानि माङ्गल्य तया तथापि ॥ प्रमाणवगौरवरश्मियुक्त सितं सुवृत्तं समसूक्ष्मरन्ध्रम् । अक्रेतुरप्या वहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥ १७ ॥ एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् न तस्य भर्त्तारमनर्थजात एकोऽपि दोषः समुपैति सद्य: ॥ १८ ॥ एवं सर्व्वगुणोपेतं मौक्तिकं येन धार्य्यते । तस्यायुव्वईते लक्ष्मीः सर्व्वपापं प्रणश्यति ॥ १८ ॥ गुणवद्गुरु यद्दे हे मौक्तिकैकं हि तिष्ठति । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ २० ॥ अथ दोषाः ।
यथा.
॥
चत्वारःस्युर्महादोषाः षण्मध्याश्च प्रकीर्त्तिताः 1 एवं दश समाख्यातास्तेषां वच्यामि लक्षणम् ॥ २१ ॥ यत्रेकदेशे संलग्नः शुक्तिखण्डो विभाव्यते । शक्तिलग्नः समाख्यातः स दोषः कुष्ठकारकः ॥ २२ ॥ मोन - लोचन-संकाशो दृश्यते मौक्तिके तु यः । मत्स्याक्षः स तु दोषः स्यात् पुत्त्रनाशकरो ध्रुवम् ॥ २३ ॥ दीप्तिहोनं गतच्छायं जरठं तद्विदुर्बुधाः । तस्मिन् संधारिते मृत्युर्जायते नात्र संशयः ॥ २४ ॥ मौक्तिकं बिद्रुमच्छायमतिरक्तं विदुर्बुधाः । दारिद्राजनकं यस्मात्तस्मात्तत्परिवर्जयेत् ॥ २५ ॥ उपर्युपरि तिष्ठन्ति वलयो यत्र मौक्तिके । त्रिवृत्त' नाम तस्योक्तं सौभाग्य-क्षयकारकम् ॥ २६ ॥
११५