________________
११४
युक्तिकल्पतरोसित च्छाया भवेविप्रः क्षत्रियश्चाकरश्मिमान् । पोतच्छाया भवेद्देश्यः शूद्रः कृष्णरुचिर्मतः ॥ ८ ॥
- अथ गुणाः । [मात्स्ये] । सुतारश्च सुवृत्तञ्च स्वच्छञ्च निर्मलन्तथा। घनं निग्धञ्च सच्छायं तथाऽस्फटितमेव च । अष्टौ गुणाः समाख्याता मौक्तिकानामशेषतः ॥ १० ॥ तद्यथा,तारकाद्युतिसंकाशं सुतारमिति गद्यते । सर्वतो वर्तुलं यच्च सुवृत्त तबिगद्यते ॥ ॥ ११ ॥ स्वच्छं दोषविनिर्मुक्तं निर्मलं मलवजितम् । गुरुत्वं तुलने यस्य तद्घनं मौक्तिकं वरम् ॥ १२ ॥ नेहेनैव विलिप्त यत् तत् स्निग्धमिति गद्यते। छाया समन्वितं यच्च सु(स)च्छायं तनिगद्यते। व्रणरेखाविहीनं यत् तत्स्वादस्फुटितं शुभम् ॥ १३ ॥ भ्राजिष्णु कोमलं कान्तं मनोनं स्फुरतीव च । स्रवतीव च सत्त्वानि तन्महारत्न संजितम् ॥ १४ ॥ खेतकाच समाकारं शुभ्रांशु शतयोजितम् । ऋषराज(१) प्रतिच्छायं मौक्तिकं देवभूषणम् । १५ गारड़े,-*
त्वक्सार नागेन्द्र-तिमि-प्रसूतम्,
यच्छलजं यच्च वराह जातम् । (१) शशिराज इति (ग) पुस्तक पाठः ।। - * अन्यत् सव्वं शुक्रनीति-वृहत्संहिता-मत्स्यपुराण-मानसोल्लासादिषु अनुसन्ध यन् ।