________________
मुक्तायुक्तिः ।
वैश्यः स्यात् शुक्ल-पोतस्तु कोमल: कोल - सन्निभः । शूद्रः स्यात् शुक्लनीलस्तु कर्कशः श्याम एव च ॥ ६१ ॥
तथा च, -
'कोलजं कोलसदृशं तद्दंष्ट्रा सदृशच्छविः । अलभ्यं मनुजेरम्यं मौक्तिकं पुण्यवर्जितैः ॥ ६२ ॥ ये कम्बवः शार्ङ्ग मुखावमर्ष पीतस्य शङ्ख- प्रवरस्य गोत्रे । स्यान्मौक्तिकानामिह तेषु जन्म तल्लक्षणं सम्प्रतिकीर्त्तयामः ॥ ६३ ॥ स्वयोनि मध्यच्छवि-तुल्यवर्णं शङ्खाद्दृहत्कोलफलप्रमाणम् ॥ ६४ ॥
तथाच,—
वर्षोपल समं दोप्या पाञ्चजन्य-कुलोद्भवम् ॥
कपोताण्ड-प्रमाणं तत् श्रतिकान्ति- मनोहरम् ॥ ६५ ॥ अश्विन्यादिक नक्षत्रे ये जाताः कम्बवः शुभाः । मौक्तिकं तेषु जातं हि सप्तविंशति-भेदभाक् ॥ ६६ ॥ शुक्लाशुक्लाः पीतरक्ता नीलालोहित-पिन्जराः । आकर्व्वराः पाटलाश्च नववर्णः प्रकीर्त्तिताः ॥ ६७ ॥ महन्मध्य लघून्मानैः सप्तविंशतिधा मवेत् ।
क्रमतस्तेषु विज्ञेयं नक्षत्रेषु मनीषिभिः ॥ ६८ ॥ पाठीन पृष्ठस्य समानवर्ण मौनात् सुवृत्तं लघु नातिसूक्ष्मम् । उत्पद्यते वारिचराननेषु मीनाश्वते मध्यचराः पयोधेः ॥ ६८ ॥
तल्लक्षणं यथा, -
१०८
-
गुञ्जाफलकाय - स्थौल्य मोक्तिकं तिमिजं लघु *1 पाटलापुष्प-संकाशं अल्पकान्ति सुवर्त्तुलम् ॥ ७० ॥ वातपित्त- -कफहन्द- सन्निपात- प्रभेदतः ।
सप्त प्रकृतयो मीना सप्तधा तेन मौक्तिकम् ॥ ७१ ॥
“तिमिजं मत्स्वाक्षिनिभं वृहत्पवित्र' वहुगुणञ्च”। इति वराहमिहिरींय |