________________
युक्तिकल्पतरोते मृत्युमेवात्मनि वै वहन्ति
सत्यं वदत्येष यतो मुनीन्द्रः * ॥३३॥ इति श्रीभोजराजौये युक्तिकल्पतरौ प्रवाल परीक्षा ॥
अथ गोमेद परीक्षा। हिमालये वा सिन्धौ वा गोमेद-मणिसम्भवः । खच्छ कान्तिर्गरुः स्निग्धो वर्णाव्यो दीप्तिमानपि ॥ ३४ ॥ वलक्षः पिञ्जरो धन्यः ‘गोमेद' इति कीर्तितः । चतुड़ी जाति-भेदस्तु गोमेदेऽपि प्रकाश्यते ॥ ३५ ॥ ब्राह्मण: शुक्लवर्णः स्यात् क्षत्रियो रक्त उच्यते । आपोतो वैश्यजातिस्तु शूद्रस्त्वानौल उच्यते ॥ ३६ ॥
छाया चतुर्विधा श्वेता रक्ता पोताऽसिता तथा ॥ ३७ । गुरुः प्रभाब्यः सितवर्णरूपः स्निग्धो मृदुर्वाति महापुराणः । स्वच्छस्तु गोमेदमणि तोऽयं करोति लक्ष्मी धनधान्य-वृद्धिम् ॥३८॥
लघुर्विरूपोऽति खरोऽन्यमानः, नेहोपलिप्तो मलिन: स्व(ख)रोऽपि । करोति गोमेद-मणिविनाशम् ;
सम्पत्तिभोगाऽखिल (वल) वीर्यराशः ॥ ३८ ॥ ये दोषा होरके ज्ञेयास्ते गोमेदमणावपि । परीक्षा वह्नित:काया शाणे वा रत्नकोविदः । स्फटिके नैव कुर्वन्ति गोमेद प्रतिरूपिणम् ॥ ४० ॥
* पन्यत्सर्व मस्ति शुक्रनीति, राजनिर्घण्ट, गरुडपुराण, वृहत्संहितादिष्वपि ततोऽनु, सन्धेयम्।