________________
प्रवालयुक्तिः ।
१०५
अरुणं शशरताख्य कोमलं निग्धमेवच । प्रवालं विप्रजाति: स्यात् सुखवेध्यं मनोरमम् ॥ २२ ॥ जवावधूकसिन्दूरं दाडिमी-कुसुम-प्रभम् । कठिनं दुर्बेध्यमस्निग्धं क्षत्रजातिं तदुच्यते ॥ २३ ॥ पलाशकुसुमाभासं तथापाटल-सबिभम् । वेश्यजातिभवेत् स्निग्ध वर्णाव्य मन्दकान्तिमत् ॥ २४ ॥ रक्तोत्पलदलाकारं कठिनं न चिरद्युतिः । विद्रुमं शूद्रजातिः स्याद् वायु-बेद्यं तथैव च ॥ २५ ॥ रक्तता स्निग्धता दायं चिरद्युति-सुवर्णता । प्रवालानां गुणाः प्रोक्ता: धनधान्य-करा: परा: ॥ २६ ॥ हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् । तत्र लिप्तो भवेनिम्ब-कल्कोऽति मधुरः स्थिर:(तः) ॥२७॥ तस्य धारण-मात्रेण विषवेगः प्रशाम्यति। विवर्णता तु खरता प्रवाले दूषणद्दयम् ॥ २८ ॥ रेखा काकपदौ विन्दुर्यथा वजेषु दोषवत्र(हत्)। तथा प्रवाले सर्वत्र वजनीयं विचक्षणैः ॥ २८ ॥ रेखा हन्याद् यशोलक्ष्मीमावर्तः कुलनाशनः । पट्टलो रोगवत् ख्यातो विन्दुर्धन-विनाशक्तत् ॥ ३० ॥ वासः सचनयेचासं नीलिका मृत्यु-कारिणो । मूल्यं शुद्ध-प्रवालस्य रौप्यहिगुणमुच्यते ॥ ३१ ॥ धारणेऽस्यापि नियमो जाति-भेदेन पूर्ववत् ॥ ३२ ॥ तथाहि,
विरूप-जातिं विषमं विवर्णम्, खर-प्रवालं प्रवहन्ति ये ये ।