________________
१०४
युक्तिकल्पतरौयत्तण्डलैह्रदशभिः कृतस्य वजस्य मूल्य प्रथमं प्रदिष्टम्। दाभ्यां क्रमाद्धानिमुपागतस्य त्वेकावसानस्य विनिश्चयोऽयम् ॥१५॥
अनेनापि हि (१३) दोषेण लक्ष्यालक्ष्येण दूषितम् । खमूल्याद्दशमं भागं वजं लभति मानवः ॥ १६ ॥ प्रकटानेकदोषस्य खल्पस्य महतोऽपि वा। खमूल्याच्छतशो भाग वजस्य न विधीयते ॥ १७ ॥ यम्म ल्यं ब्राह्मणे प्रोक्त पादोन(१४)मपि वाहुजे। अनेनैव क्रमेणेव मणि-मूल्य विधीयते ॥ १८ ॥ चतुर्विधमिदं वज्र यदुक्तं जाति-भेदतः । चतुर्विधै नॅपतिभिर्धाय॑माणादनुक्रमात् ॥ अतोऽन्यथातिं कुर्यात् रोगशोक-मयङ्करान् ॥ १८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ
होरक-युक्ति: (परीक्षा)।
अथ विद्रुम परीक्षा-[प्रवाल परोक्षा] । खेत-सागरमध्ये तु जायते वल्लरी तु या। विट्ठमा नाम रत्नाख्या दुर्लभा वज्ररुपिणी ॥ २० ॥ पाषाण-प्रभजत्येषा प्रयत्नात् कथिता सतो। विद्रुमं नाम तद्रनमामनन्ति मनीषिणः । ब्रह्मादि-जातिभेदेन तच्चतुर्विधमुच्यते ॥ २१ ॥
(१३) अश्वनामपि दोषेण इति (क) पुस्तक पाठः । (१४) पादनानेन इति (ख) पुस्तक पाठः ।