________________
हौरकादिभूल्ययुक्तिः। क्षारोल्लेखन शाणैस्तु (१०) काप्यं तेषां परीक्षणम् । क्षाराग्नेर्लेपयेबज्र रौद्रे चैव परीक्षयेत् ॥ ६ ॥ कत्रिमं याति वैवण्य स्वरूपञ्चाभिदीप्यते । क्षीयते शाणसंसर्गात् (११) चूर्णतां याति चूर्णितम् ॥ ७ ॥
तथा च,पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः । सर्वाणि विलिखेद्दनं तच्च तेन विलिख्यते ॥ ८॥ गुरुता सर्वरत्नानां गौरवाधान-कारणम् । वज्जे तान् वैपरीत्येन सूरयः परिचक्षते ॥ ८ ॥ न तेषां प्रतिवन्धानां भा भवत्यूद्ध गामिनी । तिर्यक् क्षतत्वात् केषाञ्चित् कथञ्चिदपि दृश्यते ॥ १० ॥ तिर्यगालिख्यमानानां सा पावपि (१२) हन्यते ॥११॥
अथ मूल्यम्। अष्टाभिः सर्षपै गौरैस्तण्डलं परिकल्पयेत् ।
तण्डुलेन तु वज्राणां धारणे मूल्यमुच्यते ॥ १२ ॥ यदि वज्रमपेत सर्व-दोषं, विभृयात्तण्डुलविंशतिं गुरुत्वे । मणि-शास्त्रविदो वदन्ति तस्य द्विगुणं रूपक-लक्षणमग्रामूल्यम् ॥१३॥ त्रिभागहीनाई-तदईशेषं त्रयोदशं त्रिंशदतोऽईभागाः । अशीति भागोऽथ शतांशभागः सहस्रभागोऽल्पसमानयोगः ॥ १४॥
(१०) शालाभिः इति (क) पुस्तक पाठः । (११) क्षयते शाणसंहर्षात् इति (ख) पुस्तक पाठः। (१२) सा पार्श्वषु विहन्यते इति (ख) पुस्तक पाठः ।