________________
१०२
युक्तिकल्पतरौस्फटिताग्नि विशीर्ण शृङ्गदेशम् मलवर्णैः पृषतेरुपेतमध्यम् । न हि वजभृतोऽपि वजमाशु श्रियमन्याश्रय-नाशं विधते ॥ ८५ ॥ यस्यैकदेशे क्षतजावभासो यहा भवेलोहितवर्ण-चित्रम् । नतन्त्र कुर्यात् ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥२६॥ प्रथमं गुणसम्पदाद्युपेतं प्रतिवद्धं यमुपैति यत् स दोषम् । सुलभाभरणेन तस्य राज्ञो गुण-हौनोऽपि मणिनं भूषणाय ॥ ८७ ॥
यस्य क्षते भवेच्छोथो दाहो वा ज्वर एव च । तथा चिमचिमायेत तहज दुष्टमुच्यते ॥ १८ ॥ कर्कशं गुरु यद् वज्र न तद्धारयते नृपः । त्रिकोणं कलहो यस्माच्चतुष्कोणं भयावहम् ॥ 22 ॥ पञ्चकोणे भवेन्मृत्युः षट्कोणं शुद्धमादिशेत् । द्विदले कलहो नित्यं त्रिदले सुखनाशनम् ॥ १०० ॥ चतुष्कोणे सुखावाप्तिःशोकश्च पञ्चमे दले। षड्दले राजतो भोतिर्मृत्युः सप्तदले तथा ॥ अष्टदलं भवेच्छुद्धं वज्रमित्याह ‘पावकः ॥ १ ॥ विछायं विपदं करोति मलिनं धत्ते शुचं कर्कशम् , दुःखं स्नेह-विलिप्तमन्तकरणं श्याम(व)च्छविः क्ले शक्तत् । रेकाकाक-पदाङ्ग-विन्दु सहितं स्यान्मृत्यवे देहिनाम् ; वज्र वज्रविचक्षणस्तु विभृयात्तस्मादिचार्य स्वयम् ॥ २ ॥ गुर्विणोभिन धर्तव्यो युवतीभिरयं मणिः । जठरे वन्धु-सम्पर्काट् गर्भस्तासां हि शुष्यति ॥ ३ ॥ अयसा पद्मरागण तथा गोमेदकेन च। वैदूर्यस्फटिकाभ्याञ्च काचैर्वा(श्चा)पि पृथविधैः ॥ ४ ॥ प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला नराः । परीक्षा तेषु कर्तव्या विद्वद्भिः सुपरीक्षकैः ॥ ५ ॥