________________
युक्तिकल्पतरौगुणयुक्तस्य वज्रस्य शूद्रजातर्विधारणात् । अन्यच्चतुर्विधं वज्र प्रवदन्ति पुरातनाः ॥ ७३ । हिमकुन्देन्दुधवलं षट्कोणाष्टदलन्तथा । तीक्ष्णं वारिभवं वज्र घनशब्देति कान्तिमत् ॥ ७४ ॥ अन्धकार च दीप्यत तज्ज्ञेपं वज्रधारणम् । गुणाढ्यं तीक्षणधारं यत् सर्प-दर्प-निवारणम् ॥ ७५ ॥ तस्य धारणतो येन विषरोगः प्रशाम्यति । सूर्यकोटि-प्रतीकाशं चन्द्रकोटि-सुशीतलम् ।। ७६ ॥ अन्धकार-हरं वज्र विज्ञेयं महदुत्तमम् । तस्य धारणतोयेन सर्वरोगः प्रशाम्यति ॥ ७७ ॥ तप्ते दुग्धे जले तैले हते क्षिप्तोऽपि यः परि। शोततां नावहेत् (३) सद्यः संज्ञेयः सुरदुर्लभः ॥ ७८ ॥ एषामन्यतरं लब्धा नृपः सुखमवाप्नुयात् । तत्तु त्रिभुने नास्ति यन्त्र धारयते नृपः ॥ ७८ ॥
अथ दोषाः। मलो विन्दुस्तथा रेखा त्रासः काकपदस्तथा । एते दोषाः समाख्याता: पञ्चवजेषु कोविदः ॥ ८० ॥ मले मलिनता ख्याता विन्दौ सर्वार्थ-नाशनम् । रेखायां दंष्ट्रिणो भौतिस्वासे त्रास: क्षयः पदे ॥ ८१ ॥ मले मलिनता ख्याता रेखायां ट्रंष्ट्रिणो भयम्। कोणे व्याधि भयं प्रोक्त मध्ये व्याधि-भयम्भवेत् ॥ ८२ ॥ दोषेषु विन्दुरावत: परिवर्तों यदाकृतिः । चतुर्द्धवं समाख्याता विन्दवो वज्र-संश्रिताः ॥ ८३ ॥
(३) नावयेत् इति (ख) पुस्तक पाठः।