________________
ع ع
वज्रादि-युक्तिः। वृद्धिस्तं प्रतिदिनमेति यावदायुः ;
श्रीसम्पट्युत धन-धान्य-गो-पशूनाम् ॥ ६२ ॥ व्यालवनि-विषव्याघ्र तस्कराद्यभयानि च । दूरादेव निवर्तन्ते कर्मण्याथर्वणानि च ॥ ६३ ॥ यत्तु सर्वगुणैर्युक्त वज्र तरति बारिणि । रत्नबर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ ६४ ॥ यद्यपि विशोण-कोटिः सविन्दु-रेखान्वितो विवर्णो । तदपि च धनधान्य-सुतान् करोति सेन्द्रायुधो वजः ॥ ६५ ॥
सौदामिनी-विस्फूरिताभिरामम्, राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्त-पर-प्रतापः ;
समस्तसामन्त-भुवं भुनक्ति ॥ ६६ ॥ (इति गारुड़े)। समस्तां पृथिवीं पाति पार्थिवस्य विधारणात् । दृप्तिलक्ष्मीर्यशः कीर्तिरायुर्वजस्य धारणात् ॥ ६७ ॥ उत्साहः प्रियतुष्टित्व विप्रणाशनमेव च । तथा सम्पत्तयः सर्वा वैयेते परिधारिते (२)॥ ६८ ॥ प्रतापः शौर्यमुत्साहः तेजसस्य विधारणात्। ' यानं तपोभिश्च यदाप्नोति तदाप्न यात् ॥ ६८ ॥ गुणयुक्तस्य वचस्य विप्रजातर्विधारणात् । जपः पराक्रमस्तस्य शत्रुनाशश्च जायते ॥ ७० ॥ गुणवत्-क्षबजातीनां वज्र वसति यद्गृहे। . कलाकुशलताद्रव्यं प्रज्ञा क्षेमं यशो महत् ॥ ७१ ॥ गुणिनः परिरत्नस्य वैश्यजातेर्बिधारणात्। परोपकारिता क्षेमं धन-धान्य समृद्धयः ॥ ७२ ॥ (२) परिधारणात् इति (ख) पुस्तक पाठः ।