________________
युक्तिकल्पतरोप्रत्यर्थं लघुवर्णतश्च गुणवत् पार्वेषु सम्यस्थितम्, रेखाविन्दुकलङ्ग-काकपदक-त्रासादिभिर्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यद् वज्र क्वचिद् दृश्यते ; तस्मिन्देवसमाश्रयो ह्यवितथं तीक्ष्णाग्रधारं यदि ॥ ५५ ॥
षट्कोटि-शुद्धममलं स्फटतीक्ष्णधारम्, वर्णान्वितं लघुसुपार्श्व मपेत-दोषम् । इन्द्रायुधांश-विसृति छुरितान्तरीक्षम् ;
एवंविधं भुवि भवेत् सुलभं न वज्रम् ॥ ५६ ॥ प्रसुते काण्डसम्भिन्नं शक्रायुध-समां शिखाम् । अत्यन्त लघुतीक्ष्णा तहज़' वज्र-धारणम् ॥ ५७ ॥ विष्णुधर्मोत्तरे,—(अग्निपुराणे च )। अम्भस्तरति यहज अभेद्यं विमलञ्च यत् । सत्कोणं शक्रचापाभं लघुचार्कनिभं शुभम् ॥ तथा संशुद्ध षट्कोणं लघु भार्गव-नन्दन ! ॥ ५८ ॥ प्रभा च शकचापाभा यस्याकाभिमुखी भवेत् । तहजं धारयेद्राजा सर्वान् जयति शात्रवान् ॥ ५८ ॥ तथा च,यस्तु वारि-भवो नाम दुर्वापत्र-जलच्छविः । सुवर्णमात्र तुलया (१) तहज्र कोटि-भाजनम् ॥ ६० ॥ ऊ निबारयेहजमधः सर्पानिवारयेत् । रात्री निवारयेद्भूतान् होरकस्यैव धारणात् ॥ ६१ ॥
तीक्ष्णाग्रं विमलमपेत सर्वदोषम्, धत्ते यः प्रयततनुः सदैव वज्रम् ।
(१) गणयेत् इति (क) पुस्तक पाठः ।