________________
४७
वज्रादियुक्तिः । । विमलं शुचितीक्ष्णाग्रं वैयतं वचमुच्यते ॥ सुतीक्ष्णं दीप्तिमत् स्वच्छं तैजसं वचमुच्यते ॥ ४६ । लघुतीक्ष्ण: खरस्पर्शो वायव्यः परिकथ्यते । ब्रह्म-क्षत्रिय-विट्-शूद्रा भेदास्ते तु चतुबिधाः ॥ ४७ ॥ खेता रक्ता तथा नीला कृष्णा छाया चतुर्विधाः । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातेर्वजस्य विक्रमात् ॥ ४८ ॥
गारड़े,विप्रस्य शङ्ख कुमुदस्फटिकावदातः, स्यात्क्षत्रियस्य शशवज विलोचनाभः । वैश्यस्य कान्त-कदली-दलसबिकाशः ;
शूद्रस्य धौत-करवाल-समानदौप्तिः ॥ ४ ॥ हरित-सित-पीत-पिङ्ग-श्यामा-ताम्राः स्वभावतोरुचिराः । हरिवरुण-शक्र हुतवह-पिटपति मरुतां खका वर्णाः ॥ ५० ॥
हौ वचवर्णी पृथिवीपतीनाम्, सद्भिः प्रतिष्ठौ नतु सार्वजन्यौ । यः स्याज्जवाविट्ठम-भङ्गशोणो; .
यो वा हरिद्रा-रससबिकाशः ॥ ५१ ॥ ईशत्वात् सर्ववर्णानां गुणवत् सार्ववर्णिकम् । कामतो धारयेद् राजा नत्वन्योन्यं कथञ्चन ॥ ५२ ॥
अथ गुणाः-[ गारड़े ]। , कोव्यः पार्खानि धाराश्च षडष्टौ हादशेति च । उत्तुङ्ग सम तीक्ष्णाग्रा वचस्याकरजा गुणाः ॥ ५३ ॥ षट्कोणकं लघुत्वञ्च समाष्टादश(ल)ता तथा । तीक्ष्णाग्रता निर्मलत्व मेते पञ्चगुणा मताः ॥ ५४॥
__ . १३