________________
युक्तिकल्पतरोब्रह्मक्षत्रिय-वैश्यान्त्याश्चतुड़ी ये प्रकीर्तिताः ॥ ३८ ॥ चतुर्विधै- पतिभिर्धार्याः सम्पत्ति हेतवे। अतोऽन्यथात: कुर्याद्रोगशोक-भयक्षयम् ॥ ३ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ
पद्मराग-परीक्षा ॥
अथ हौरकपरीक्षा *। गारड़े,हेम-मातङ्ग-सौराष्ट्राः पौण्ड-कालिङ्ग-कौशलाः । वेखा(ल्वा) तटाः स सौवीरा वज्रस्याष्टौ विहारकाः । ४०॥ आताचा हिमशैलजाः शशिनिभा वेण्यातटीया मताः, सौवोर तु सितान मेघसदृशास्ताम्राश्च सौराष्ट्रजाः । कालिङ्गाः कनकावदातरुचिराः पौत-प्रभाः कौशले ; श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्त-पोतप्रभा: ॥ ४१ ॥ कृतयुगे कलियुगे कोशले वज्र-सम्भवः हिमालये मतङ्गादौ त्रेतायां कुलिशोङ्गवः ॥ ४२ ॥ पौण के च सुराष्ट्रे च हापरे परि-सम्भवः । वैरागरे च सौवीर कलौ हौरक-सम्भवः ॥ ४३ ॥ पृथिव्यपो-वियत्तेजो मरुच्चैवेति पञ्चभिः । पञ्चभूतात्मकं वज्र तेजसं प्रायसो भवेत् ॥ ४४ ॥ महापुराणं स्वदनं सुशोभं पार्थिवं विदुः । स्निग्धं मृदु-घनं स्वच्छमाप्यमाहुः परं वुधाः ॥ ४५ ॥
-
* वज्र ( हीरक )-वृत्तन्तु गाड़पुराण-वामनपुराण भागवत-मत्स्य पुराण-राजनिघण्टभावप्रकाशादिषु द्रष्टव्यम्।