________________
पनरागयुक्तिः । यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः । तावन्मूल्य चतुर्थांशं हीयते शूद्रजन्मनि ॥ २६ ॥ पद्मरागः पणं यस्तु धत्ते लाक्षारस-प्रभः । कार्षापण-सहस्राणि त्रिंशन्मूल्य लभेत सः ॥ २७ ॥ इन्द्रगोपक संकाशः कषत्रय-तो-मणिः । हाविंशतिं सहस्राणां तस्य मूल्य विनिर्दिशेत् ॥ २८ ॥ एकोनोनयते यस्तु जवाकुसुम-सबिभः । कार्षापण-सहस्राणि तस्य मूल्य चतुर्दश ॥ २८ ॥ वालादित्य द्युति-निभं कर्ष यस्तु प्रतुल्यते । कार्षापण-शतानान्तु मूल्यं सद्भिः प्रकीर्तितम् ॥ ३० ॥ यस्तु दाडिम-पुष्पाभः कर्षाईन तु सन्मितः । कार्षापण शतानान्तु विंशति मूल्यमादिशेत् ॥ ३१ ॥ चत्वारो माषका यस्तु रत्तोत्पल-दल-प्रभः । मूल्य तस्य विधातव्यं सूरिभिः शत-पञ्चकम् ॥ ३२ ॥ हिमाषको यस्तु गुणैः सर्वैरेव समन्वितः । तस्य मूल्य विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ ३३ ॥ माषकैक-मितो यस्तु पद्मरागो गुणान्वितः । शतैक-सम्मितं वाच्यं मूल्य रत्न-विचक्षणैः ॥ ३४ ॥ अतोऽन्यून-प्रमाणास्तु(न्तु) पद्मरागा गुणोत्तराः । वर्ण-दिगुण मूल्ये न मूल्य तेषां प्रकल्पयेत् ॥ ३५ ॥ कार्षापण: समाख्यातः पुराणहय-सम्मितः । अन्ये कुसुम्भ-पानीय-मञ्जिष्ठोदक-सन्निभाः ॥ ३६ ॥ काषाया इति विख्याताः स्फटिक-प्रभवाचते । तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् ॥ ३७॥ मूल्यमल्पन्तु विज्ञेयं कारणेऽल्पफलन्तथा ।