________________
( a ) कायव्यूहरौत्या मतादित्य-मृतकायं प्रविष्टः, तच्छरोरं पुनरुज्जीवयामास। सचैकदा नानादिग्देशस्थान् सग्रन्थान् सूरीन् समाय महायज्ञ सम्पादनव्याजेन कश्मलबुद्धया सर्वान्ग्रन्थान् प्रज्ज्वलितानले निचिक्षेप। अनन्तरं राज्ये सौगत-नयं प्रचचार । समाहुत-सूरिंगणा अतिशय दुःख मनुभूय धारेवर भोजराजान्तिकमाजग्मुः। ततो मतादित्यस्य यजव्यपदेशेन ग्रन्यभस्मोकरणहत्तान्तं भोजराजाय निवेदितवन्तः। तच्छ्रुत्वा राजा ज्योतिर्विदं तान्त्रिकच्चाहय विदितवृत्तेन कायव्यूह-विघटन पूर्वकं वौद्ध-सबवासिनो मतादित्यस्य देहात्
आभिचारिक कार्येण निर्गमनं सम्पादितम्। तत्सम्पाद्य च विदुषां स्मृति-पथारुढ़विषयः सर्वैः कामधेनुनाम्ना महानिवन्धः सुधौभिविरचित एवमन्ये बहवः शास्त्रीया ग्रन्या तदानीं तैर्विद्भिः प्रणोता इत्युचुः ॥ भोजप्रवन्धे तु तत् समय एवं व्यलेखि ।
“पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् ।
भोजराजेन भोक्तव्यं सगौड़ दक्षिणापथम् ॥" (१७५५)-मितकालं राज्यं प्रत्यपालयत् । अर्थात् दिवसत्रयोत्तर सप्तमासाधिक पञ्चपञ्चाशवर्षाण्येव प्रत्यपालयत्। यदा च हर्षदेव पितामहानन्तदेवः काश्मीरं प्रतिपालयामास, तदैव भोजराजो मालवाचलाम्। अनन्तदेवश्व खु. १०६५ मिताभ्यन्तरे नृप प्रासीत् । स एव भोजदेवस्यापि राज्यकाल इति निर्णीयते। इत्येवं किञ्चिबानाधिकं भोजदेव-राज्यकालतया प्राच्य-प्रतीचेतिहासवेत्तारो मेनिरे। ___ उइल्सन् साहेवेन दशकुमारचरित भूमिकायां ( खः १००० ) मितवर्षाभ्यन्तरे एव भोजस्य राजकाल' इति लोकवादमवलम्बा दण्डिकवेः समयोऽवाधारि। तत: उइल्सन् साहेव-निर्णीतात्