________________
( . ) कायव्यूहरोत्या मतादित्य-मृतकायं प्रविष्टः, तच्छरौरं पुनरुज्जीवयामास । सचैकदा नानादिग्देशस्थान् सग्रन्थान् सूरीन् समालय महायज्ञ सम्पादनव्याजेन कश्मलबुद्ध्या सर्वान्ग्रन्थान् प्रज्ज्वलितानले निचिक्षेप। अनन्तरं राज्ये सौगत-नयं प्रचचार । समाहुत-सूरिंगणा अतिशय दुःख मनुभूय धारेश्वर भोजराजान्तिकमाजग्मुः। ततो मतादित्यस्य यजव्यपदेशन ग्रन्यभस्मीकरणवृत्तान्तं भोजराजाय निवेदितवन्तः। तच्छ्रुत्वा राजा ज्योतिर्विदं तान्त्रिकच्चाइय विदितवृत्तेन कायव्यूह-विघटन पूर्वकं वौह-सवासिनो मतादित्यस्य देहात्
आभिचारिक कार्येण निर्गमनं सम्पादितम्। तत्सम्पाद्य च विदुषां स्मृति-पथारुढ़विषयैः सर्वैः कामधेनुनाना महानिवन्धः सुधौभिविरचित एवमन्ये बहवः शास्त्रीया ग्रन्या तदानीं तैर्विद्भिः प्रणीता इत्युचुः॥ भोजप्रवन्धे तु तत् समय एवं व्यलेखि ।
“पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् ।
भोजराजेन भोक्तव्यं सगौड़ दक्षिणापथम् ॥” (१७५५)-मितकालं राज्यं प्रत्यपालयत् । अर्थात् दिवसवयोत्तर सप्तमासाधिक पञ्चपञ्चाशवर्षाण्येव प्रत्यपालयत्। यदा च हर्षदेव पितामहानन्तदेव: काश्मोरं प्रतिपालयामास, तदैव भोजराजो मालवाचलाम् । अनन्तदेवश्च खः १०१५ मिताभ्यन्तरे नृप प्रासीत् । स एव भोजदेवस्थापि राज्यकाल इति निर्णायते। इत्येवं किञ्चिब्रानाधिकं भोजदेव-राज्यकालतया प्राच्य-प्रतोयेतिहासवेत्तारो मेनिरे।
उइल्सन् साहेवेन दशकुमारचरित भूमिकायां (१००० )। मितवर्षाभ्यन्तरे एव भोजस्य राजकाल' इति लोकवादमवलम्बा दण्डिकवे: समयोऽवाधारि। तत: उइल्सन् साहेव-निर्णीतात्