________________
युक्तिकल्पतरोगुनाफल-प्रमाणन्तु दशसप्तत्रिगुञ्जकान् । पद्मरागस्तु नयति यथापूर्व महागुण: ॥ २ ॥ क्रोष्टुकोण फलाकारान् हादशाष्टादिगुजकान् । पद्मरागस्तु नर्यात यथापूवं महागुण: * ॥ ३ ॥ वदरोफल तुल्यो यः सुर दिग्-वसु-मासकः । धात्रोफलञ्च विंशच विंशति-यष्ट-मासकः ॥ ४ ॥ तथाक्षोफल तुल्यो यः वह्निपक्षक मासकः । ताम्बुलफलमानो यश्चतुस्त्रि-दिक-तोलकः ॥ ५ ॥ विल्वो(म्बो)फलसमाकार-वसु-षट्दश-तोलकः । अतःपरं प्रमाणेन मानेन च न लक्ष्य(भ्यते ॥ ६ ॥ यदि लक्षे(भ्ये)त पुण्येन तदा सिहिमवाप्नुयात् । केचिच्चारतरा: सन्ति जात्यानां प्रतिरूपकाः ॥ ७ ॥ विजातयः प्रयत्नेन विद्धास्तान् मूल(स)माहरेत् (१८) ॥८॥ कोकनकाः (१८) सिंहलदेशोत्थ-मुक्तमालीयाः। श्रीपर्णीकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ ८ ॥
तुषोपसज्जाङ्गल(२०)माभिधानम्, मणिः स्वभावादपि तुम्बरुत्थः । कात्तिथा सिंहल-देशजातम् ; मुक्ताभिधानं नभसः स्वभावात् ॥ १० ॥ श्रीपर्णकं दीप्ति-निराकृतित्वा, हिजाति-लिङ्गाश्रयभेद एषः ॥ ११ ॥
(१८) -स्तां नूनसमाहरेत् इति (क) पुस्तक पाठः । (१८) काङ्गानका इति (क) पुस्तक पाठः । (२०) तुषोपमहङ्गल- इति (क)-(ग) पुस्तक पाठः ।