________________
वज्रादियुक्तिः ।
न पद्मरागस्य महागुणस्य ; भर्त्तारमापत् समुपैति काचित् ॥ ८२ ॥ दोषोपसर्ग-प्रभवास येते,
८१
नोपद्रवास्तं समभिद्रवन्ति ।
गुणैः समुख्यैः सकलैरुपेतम् : यः पद्मरागं प्रयतो विभत्ति ॥ ८३ ॥ वालार्क - करसंस्पर्शाद् यः शिखां लोहिताम्बमेत् (१६) । रज्जयेदाश्रमम्बापि स महा गुण उच्यते ॥ ८४ ॥ दुग्धे शतगुणे क्षिष्ट्वा रञ्जयेद् स समन्ततः। वमेच्छिखां लोहिताम्बा पद्मरागः स उत्तमः ॥ ८५ ॥ अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः । प्रकाशयति सूय्याभः स श्रेष्ठः पद्मरागकः ॥ ८६ ॥ पद्मकोषे तु यन्यस्तं विकाशयति तत्क्षणात् । पद्मरागवरो ह्येषः देवानामपि दुर्लभः ॥ ८७ ॥ सर्वारिष्ट-प्रशमनाः सर्व्वसम्पत्ति-दायकाः । चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥ ६८ ॥ यो मणिदृश्यते दूराद ज्वलदग्निसमच्छबिः । वंश - कान्तिः स विज्ञेयः सर्व्वसम्पत्ति-दायकः ॥ ८८ ॥ पञ्चसप्त-नव विंशतिः राग - सकलः खलु (स्वर्ण) वस्त्रं । वर्जयेद्दमति वा करजालं उत्तरोत्तर-महागुणिनस्ते ॥ १०० ॥ नौलीरसं दुग्धरसं जलम्बा,
ये रञ्जयन्ति द्विशतं प्रमाणम् ।
ते ते यथा पूर्व्वमति प्रशस्ता: ; सौभाग्य सम्पत्ति-विधान-दायकाः ॥ १ ॥
(१६) लोहिताम्बसेत् (च्वसेत्) इति (क) पुस्तक पाठः ।