________________
वज्रादियुक्तिः ।। तथाच, स्नेहप्रदेहो मृदुतालघुत्वं,
विजाति-लिङ्ग खलु सार्वजन्यम् । यः श्यामिकां पुष्थति पद्मरागो; यो वा तुषाणां इव चूर्ण-मध्यः ॥ १२ ॥ स्रह-प्रदिग्धो नच यो विभाति, यो वा प्रमृज्य(ह्यं) प्रजहाति दीप्तम् । आक्रान्त मूली च तथाङ्ग लोभ्याम् ; यः कालिकां पाखंगता () विभर्ति ॥ १३ ॥ संप्राप्यतां (२१) चोपपथं वहत्तम्, विभर्ति यः सर्वगुणामतीव । तुल्य प्रमाणस्य च तुल्य जाते ; र्यो वा गुरुत्वेन भवेन्न तुल्यः ॥ १४ ॥ प्राप्यापि नानाकरदेशजातम्,
ज्ञात्वा वुधो जाति गुणेन लक्षेत् ॥ १५ ॥ अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् । पृष्टो योत्यन्तशोभावान् गरिमानं न मुञ्चति ॥ १६ ॥ सन्जेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः । स्व-जातक-संमुखेन विलिखेहा परस्परम् ॥ १७ ॥ वर्ष वा कुरुविन्दं वा विमुच्यान्योन्य केनचित् । न शक्यं लेखनं कत्तुं पद्मरागेन्द्र-नोलयोः ॥ १८ ॥
जातस्य सर्वेऽपि मणेन जातु, विजातयः कान्ति-समान-वर्णाः । तथापि नाना करणार्थमेवम् ;
भेद-प्रकारः परमः प्रदिष्टः ॥ १८ ॥ (२१) प्राप्यचाणोपि इति (क)-(ग) पुस्तक पाठः