________________
स्वादियुक्तिः ।
तस्य त्वक् सम्भवं बस्त्रं त्रिविधानां महीभुजाम् ॥ २८ ॥ ते वृक्ष-वृक्षजात्यादि-भेदाज्ज्ञेयाश्चतुर्विधाः ।
छलनी चतुर्विधा तेषां तनुः स्थूलाः मृदुः खराः ॥ ३० ॥ चतुर्विधानां भूपानां क्रमतः संप्रकाशिताः ।
अत्रापि नानाकृतिता ज्ञेया शिल्पि बिनिर्मिताः ॥ ३१ ॥ जन्तुलोमोद्भवं बस्त्र ं लोमजं नाम
1
मृगादयस्तु ते ब्रह्म-चच-विट-शूद्र संज्ञकाः ॥ ३२ ॥ सूक्ष्मरोमा सुखस्पर्शः कोमलाङ्गस्तु यद्भवेत् । ब्रह्म-जातिरयं जन्तुरस्य बस्त्र गुणोत्तरम् ॥ ३३ ॥ स्थूलरोमा मृदुस्पर्शः चत्त्रियः सोऽपि निर्भयः । सूक्ष्मरोमा खरस्पर्शः शूद्र-सज्ञः (ङ्गः) सुखच्छिदः ॥ ३४ ॥ यथापूर्वं गुणयुता चिरसंस्थान - संस्थिताः ।
ब्राह्मणणे मलयेमेरौ हिमाद्रावपि जायते ॥ ३५ ॥ क्षत्रियः पश्चिमे देशे वेभ्यः पूर्वदिशिस्थितः । शूद्रः सर्वत्र जायेत प्रायसो वा युगक्रमात् ॥ ३६ ॥ एकजाति-भवं भद्रं द्वैजातं सुखसम्पदे । त्रिचतुर्जाति सम्भूतं लोमजं न सुखावहम् ॥ ३७ ॥ इ' निश्चित्य यो वस्त्र परिधातुमहीपतेः । तस्यायुश्च कुलं वीर्यं वैपरीत्य मतोऽन्यथा ॥ ३८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ - (इत्युपकरणयुक्तिः) बस्त्रोद्देशः ॥
८३