________________
युक्तिकल्पतरोअथालङ्कार-युक्तिः।
तहारण-दिनमुच्यते। रेवत्यविधनिष्ठासु हस्तादिष्वपि पञ्चम् । गुरुशुक्रवुधस्याङ्गि वस्त्रालङ्कार-धारणम् ॥ ३८ ॥ अनिष्टेष्वपि निर्दिष्टं वस्त्रालङ्कार-धारणम् । उहाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ ४० ॥ शिरस्त्र मुकुटं हारः कुण्डलं चाङ्गदन्तथा । कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात् ॥ ४१ ॥ प्रधानभूषणान्येषु यथाखं(१)याति निश्चयः ? । पद्मरागश्च वस्त्रञ्च विजयो गोविद(२)स्तथा ॥ ४२ ॥ मुक्ता-वैदूर्य नोलच्च यथा मरकतं क्रमात् । प्रादित्यादि-दशाजानां सर्व-सम्पत्ति-दायकाः ॥ ४३ ॥ सुवर्णेनापि घटना सर्वेषामुपयुज्यते । प्रधान-भूषणेष्वेव मप्रधानेन निर्णयः ॥ ४४ ॥ प्रधान-भूषणं प्राय:(३)शिरसोह्यभिधीयते। तस्य प्रधानभूतत्वा दित्याह 'भृगु नन्दनः' * ॥ ४५ ॥ सुखदा मणयः (8) शुद्धा दुःखदा दोष-शालिनः । अतो मणीनां वक्ष्यामि लक्षणानि यथाक्रमम् ॥ ४६ ॥
[ इत्यलङ्कार-तिनियमः ॥] (१) यथाश्वत् तानि इति (क)-(ग) पुस्तक पाठः । (२) गोविदास्तथा इति (क) पुस्तक पाठः । (३) -प्राय इतःपरं श्लोकाई (ग) पुस्तके नास्ति । (४) मुनयः इति (ग) पुस्तक पाठः ।
* भार्गव: शुक्राचार्यः शुक्रनीति-प्रणेति यावत् । तस्मिन्नपि शक्रनीतौ विषयोऽयमस्ति