________________
युक्तिकल्पतरोये जन्तवो दक्षिण-पूर्वसिन्धु,कच्छेवने वा प्रसव(र)न्ति सूक्ष्माः । शुक्लातिशुक्ल प्रसवन्ति तन्तुं ; ते व्राह्मणाः पुण्यतमाः प्रदिष्टाः । २० ॥ ये जन्तवः पश्चिम-सिन्धुकच्छे, वनेऽथवाऽनूप महो-प्रदेशे। आपोत-शुक्ल प्रसबन्ति तन्तुं ; तेऽमी विशः पुण्यतमाः प्रदिष्टाः ॥ २१ ॥ ये जन्तवः सर्वसमुद्रकच्छ, वनेऽथ साधारण भू-प्रदेश। नानाकतिन्ते प्रसवन्ति तन्तुं ;
गुरुं गरिष्ठाकतयो हि शूद्राः ॥ २२ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-संज्ञकानि यथाक्रमम् । वस्त्राणि तेभ्यो जायन्ते यथापूर्व शिवानि च ॥ २३ ॥ एकजातिभवं बस्त्रमुत्तमं संप्रचक्षते। द्विजाति-सम्भवं मध्यं जातं मध्यमं विदुः ॥ २४ ॥ चतुर्जातं हि कौषेयं कदाचिदपि नाचरेत् । चत्वारि तेषां नश्यन्ति आयुः कौतिः कुलम्बलम् ॥ २५ ॥ नानावर्णाकृतिन्त्वेषां शिल्पिनः कथयन्तिहि । वहुकार्पास-सूत्रोक्तं(स्थ) कार्पासमिति गद्यते ॥ २६ ॥ रूपसौक्ष्मयादि भेदेन तस्यानेकविधो भवेत् । तत्सर्वं सर्वयोग्यं हि सर्वेषामिति सम्मतम् ॥ २७ ॥ वृक्षत्वक् सम्भवं वाक्षं तज्ज्ञेयं दिविधं पुनः । जाङ्गलानूपसामान्यो-देशो यो हि विधोदितः ॥ २८ ॥ तत्र पुण्यप्र-देश तु ये पुण्या अपि पादपाः ।